अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - उरोबृहती
सूक्तम् - ब्रह्मचर्य सूक्त
आ॑चा॒र्य उप॒नय॑मानो ब्रह्मचा॒रिणं॑ कृणुते॒ गर्भ॑म॒न्तः। तं रात्री॑स्ति॒स्र उ॒दरे॑ बिभर्ति॒ तं जा॒तं द्रष्टु॑मभि॒संय॑न्ति दे॒वाः ॥
स्वर सहित पद पाठआ॒ऽचा॒र्य᳡: । उ॒प॒ऽनय॑मान: । ब्र॒ह्म॒ऽचा॒रिण॑म् । कृ॒णु॒ते॒ । गर्भ॑म् । अ॒न्त: । तम् । रात्री॑: । ति॒स्र: । उ॒दरे॑ । बि॒भ॒र्ति॒ । तम् । जा॒तम् । द्रष्टु॑म् । अ॒भि॒ऽसंय॑न्ति । दे॒वा: ॥७.३॥
स्वर रहित मन्त्र
आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः। तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥
स्वर रहित पद पाठआऽचार्य: । उपऽनयमान: । ब्रह्मऽचारिणम् । कृणुते । गर्भम् । अन्त: । तम् । रात्री: । तिस्र: । उदरे । बिभर्ति । तम् । जातम् । द्रष्टुम् । अभिऽसंयन्ति । देवा: ॥७.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(आचार्यः) म० १। साङ्गोपाङ्गवेदाध्यापकः (उपनयमानः) संमाननोत्सञ्जनाचार्यकरण०। पा० १।३।३६। इत्यात्मनेपदम्। स्वसमीपं गमयन्। उपनयनपूर्वकेण वेदाध्यापनेन प्रापयन् (ब्रह्मचारिणम्) म० १। वेदपाठिनं वीर्यनिग्राहकम् (कृणुते) करोति (गर्भम्) गर्भरूपम् (अन्तः) मध्ये। स्वाश्रमे (तम्) ब्रह्मचारिणम् (तिस्रः रात्रीः) त्रिदिनपर्यन्तम् (उदरे) स्वशरणे (बिभर्ति) धारयति (तम्) (जातम्) प्रसिद्धम् (द्रष्टुम्) अवलोकयितुम् (अभिसंयन्ति) अभिमुखं संभूय गच्छन्ति (देवाः) विद्वांसः ॥
इस भाष्य को एडिट करें