अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 18
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
एत॑ देवा दक्षिण॒तः प॒श्चात्प्राञ्च॑ उ॒देत॑। पु॒रस्ता॑दुत्त॒राच्छ॒क्रा विश्वे॑ दे॒वाः स॒मेत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठआ । इ॒त॒ । दे॒वा॒: । द॒क्षि॒ण॒त: । प॒श्चात् । प्राञ्च॑: । उ॒त्ऽएत॑ । पु॒रस्ता॑त् । उ॒त्त॒रात् । श॒क्रा: । विश्वे॑ । दे॒वा: । स॒म्ऽएत्य॑ । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१८॥
स्वर रहित मन्त्र
एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत। पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठआ । इत । देवा: । दक्षिणत: । पश्चात् । प्राञ्च: । उत्ऽएत । पुरस्तात् । उत्तरात् । शक्रा: । विश्वे । देवा: । सम्ऽएत्य । ते । न: । मुञ्चन्तु । अंहस: ॥८.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(एत) आगच्छत (देवाः) विजिगीषवः (दक्षिणतः) दक्षिणदेशात् (पश्चात्) पश्चिमदेशात् (प्राञ्चः) प्रकर्षेण गच्छन्तः (उदेत) उदयं प्राप्नुत (पुरस्तात्) पूर्वदेशात् (उत्तरात्) उत्तरदेशात् (शक्राः) शक्तिमन्तः (विश्वे) सर्वे (देवाः) महात्मानः (समेत्य) समागत्य। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें