अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 15
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
पञ्च॑ रा॒ज्यानि॑ वी॒रुधां॒ सोम॑श्रेष्ठानि ब्रूमः। द॒र्भो भ॒ङ्गो यवः॒ सह॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठपञ्च॑ । रा॒ज्यानि॑ । वी॒रुधा॑म् । सोम॑ऽश्रेष्ठानि । ब्रू॒म॒: । द॒र्भ: । भ॒ङ्ग: । यव॑: । सह॑: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१५॥
स्वर रहित मन्त्र
पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः। दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठपञ्च । राज्यानि । वीरुधाम् । सोमऽश्रेष्ठानि । ब्रूम: । दर्भ: । भङ्ग: । यव: । सह: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(पञ्च) पत्रकाण्डपुष्पफलमूलरूपाणि (राज्यानि) राज्ञा भिषजा नियुज्यमानानि कर्माणि (वीरुधाम्) विरोहणशीलानां लतादीनाम् (सोमश्रेष्ठानि) सोम ओषधिविशेषः श्रेष्ठः प्रशस्यतमो येषां तथाविधानि (दर्भः) दॄदलिभ्यां भः। उ० ३।१५१। दॄ विदारणे-भ प्रत्ययः। रोगविदारणगुणः (भङ्गः) भञ्जो आमर्दने-घञ्। नाशनगुणः (यवः) मिश्रणगुणः (सहः) बलम्। प्रभावः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें