अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 10
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
दिवं॑ ब्रूमो॒ नक्ष॑त्राणि॒ भूमिं॑ य॒क्षाणि॒ पर्व॑तान्। स॑मु॒द्रा न॒द्यो वेश॒न्तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठदिव॑म् । ब्रू॒म॒: । नक्ष॑त्राणि । भूमि॑म् । य॒क्षाणि॑ । पर्व॑तान् । स॒मु॒द्रा: । न॒द्य᳡: । वे॒श॒न्ता: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१०॥
स्वर रहित मन्त्र
दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान्। समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठदिवम् । ब्रूम: । नक्षत्राणि । भूमिम् । यक्षाणि । पर्वतान् । समुद्रा: । नद्य: । वेशन्ता: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(दिवम्) आकाशम् (ब्रूमः) (नक्षत्राणि) णक्ष गतौ-अत्रन्। तारागणान् (भूमिम्) (यक्षाणि) यक्ष पूजायाम्-घञ्। पूजास्थानानि। पुण्यक्षेत्राणि (पर्वतान्) शैलान् (समुद्राः) (नद्यः) सरितः (वेशन्ताः) जॄविशिभ्यां झच्। उ० ३।१२६। विश प्रवेशने झच्। अल्पजलाशयाः। अन्यत् पूर्ववत्-म० १ ॥
इस भाष्य को एडिट करें