अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 14
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
य॒ज्ञं ब्रू॑मो॒ यज॑मान॒मृचः॒ सामा॑नि भेष॒जा। यजूं॑षि॒ होत्रा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठय॒ज्ञम् । ब्रू॒म॒:। यज॑मानम् । ऋच॑: । सामा॑नि । भे॒ष॒जा । यजूं॑षि । होत्रा॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१४॥
स्वर रहित मन्त्र
यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा। यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठयज्ञम् । ब्रूम:। यजमानम् । ऋच: । सामानि । भेषजा । यजूंषि । होत्रा: । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(यज्ञम्) सङ्गतिकरणादिव्यवहारम् (यजमानम्) सङ्गतिकरणादिव्यवहारसाधकम् (ऋचः) अ० ६।२८।१। स्तुतिविद्याः (सामानि) अ० ७।५४।१। षो अन्तकर्मणि-मनिन्। मोक्षज्ञाननि (भेषजा) भयनिवारकानि (यजूंषि) अ० ७।५४।२। सत्कर्मज्ञानानि (होत्राः) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। हु दानादानयोः−त्रन्, टाप्। दानादानयोग्या वेदवाचः। होत्रा वाङ्नाम-निघ० १।११। (ते) पूर्वोक्ताः पदार्थाः। अन्यत् पूर्ववत्-म० १ ॥
इस भाष्य को एडिट करें