Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 2
    सूक्त - शन्तातिः देवता - चन्द्रमा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - पापमोचन सूक्त

    ब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॒मथो॒ भग॑म्। अंशं॒ विव॑स्वन्तं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    ब्रू॒म: । राजा॑नम् । वरु॑णम् । मि॒त्रम् । विष्णु॑म् । अथो॒ इति॑ । भग॑म् । अंश॑म् । विव॑स्वन्तम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.२॥


    स्वर रहित मन्त्र

    ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम्। अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    ब्रूम: । राजानम् । वरुणम् । मित्रम् । विष्णुम् । अथो इति । भगम् । अंशम् । विवस्वन्तम् । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 2

    टिप्पणीः - २−(राजानम्) ईशितारम् (वरुणम्) श्रेष्ठम् (मित्रम्) स्नेहिनम् (विष्णुम्) कर्मसु व्यापकं पण्डितम् (अथो) अपि च (भगम्) भगवन्तम्। ऐश्वर्यवन्तम् (अंशम्) विभाजकम् (विवस्वन्तम्) वि+वस निवासे क्विप्, मतुप् मस्य वः। विविधस्थाने निवासशीलम्। अन्यत् पूर्ववत् म० १ ॥

    इस भाष्य को एडिट करें
    Top