Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 23
    सूक्त - शन्तातिः देवता - चन्द्रमा अथवा मन्त्रोक्ताः छन्दः - बृहतीगर्भानुष्टुप् सूक्तम् - पापमोचन सूक्त

    यन्मात॑ली रथक्री॒तम॒मृतं॒ वेद॑ भेष॒जम्। तदिन्द्रो॑ अ॒प्सु प्रावे॑शय॒त्तदा॑पो दत्त भेष॒जम् ॥

    स्वर सहित पद पाठ

    यत् । मात॑ली । र॒थ॒ऽक्री॒तम् । अ॒मृत॑म् । वेद॑ । भे॒ष॒जम् । तत् । इन्द्र॑: । अ॒प्ऽसु । प्र । अ॒वे॒श॒य॒त् । तत् । आप॑: । द॒त्त॒ । भे॒ष॒जम् ॥८.२३॥


    स्वर रहित मन्त्र

    यन्मातली रथक्रीतममृतं वेद भेषजम्। तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥

    स्वर रहित पद पाठ

    यत् । मातली । रथऽक्रीतम् । अमृतम् । वेद । भेषजम् । तत् । इन्द्र: । अप्ऽसु । प्र । अवेशयत् । तत् । आप: । दत्त । भेषजम् ॥८.२३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 23

    टिप्पणीः - २३−(यत्) (मातली) अ० ८।९।५। मतल-इञ्, विभक्तेः पूर्वसवर्णदीर्घः। मातलिः। इन्द्रस्य जीवस्य सारथिः। मनः (रथक्रीतम्) रथेन शरीरेण प्राप्तम् (अमृतम्) मोक्षसुखम् (वेद) जानाति (भेषजम्) भयनिवारकम् (तत्) अमृतम् (इन्द्रः) परमेश्वरः (अप्सु) आपः (आप्ताः) प्रजाः-दयानन्दभाष्ये यजु० ६।२७। प्रजासु। प्राणिषु (प्रावेशयत्) प्रविष्टवान् (तत्) (आपः) हे प्रजाः (दत्त) प्रयच्छत (भेषजम्) भयनिवारकं वस्तु। मोक्षसुखम् ॥

    इस भाष्य को एडिट करें
    Top