अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 7
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
मु॒ञ्चन्तु॑ मा शप॒थ्यादहोरा॒त्रे अथो॑ उ॒षाः। सोमो॑ मा दे॒वो मु॑ञ्चतु॒ यमा॒हुश्च॒न्द्रमा॒ इति॑ ॥
स्वर सहित पद पाठमु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अ॒हो॒रा॒त्रे इति॑ । अथो॒ इति॑ । उ॒षा: । सोम॑: । मा॒ । दे॒व: । मु॒ञ्च॒तु॒ । यम् । आ॒हु: । च॒न्द्रमा॑: । इति॑ ॥८.७॥
स्वर रहित मन्त्र
मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः। सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥
स्वर रहित पद पाठमुञ्चन्तु । मा । शपथ्यात् । अहोरात्रे इति । अथो इति । उषा: । सोम: । मा । देव: । मुञ्चतु । यम् । आहु: । चन्द्रमा: । इति ॥८.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(मुञ्चन्तु) मोचयन्तु (मा) माम् (शपथ्यात्) शपथे सत्यताकरणाय दिव्यभेदे भवाद् दोषात् (अहोरात्रे) (उषाः) प्रभातवेला (सोमः) ऐश्वर्यवान् (मा) माम् (देवः) उत्तमगुणयुक्तः (मुञ्चन्तु) वियोजयतु (यम्) (आहुः) कथयन्ति (चन्द्रमाः) चन्द्रलोकः (इति) वाक्यसमाप्तौ ॥
इस भाष्य को एडिट करें