अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 17
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
ऋ॒तून्ब्रू॑म ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्। समाः॑ संवत्स॒रान्मासां॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठऋ॒तून् । ब्रू॒म॒: । ऋ॒तु॒ऽपती॑न् । आ॒र्त॒वान् । उ॒त । हा॒य॒नान् । समा॑: । स॒म्ऽव॒त्स॒रान् । मासा॑न् । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१७॥
स्वर रहित मन्त्र
ऋतून्ब्रूम ऋतुपतीनार्तवानुत हायनान्। समाः संवत्सरान्मासांस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठऋतून् । ब्रूम: । ऋतुऽपतीन् । आर्तवान् । उत । हायनान् । समा: । सम्ऽवत्सरान् । मासान् । ते । न: । मुञ्चन्तु । अंहस: ॥८.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(ऋतून्) अ० ३।१०।९। वसन्तादिकालान् (ऋतुपतीन्) सूर्यचन्द्रपृथिवीवाय्वादीन् देवान् (आर्तवान्) अ० ३।१०।९। ऋतूद्भवान् (उत) अपि च (हायनान्) अ० ३।१०।९। ओहाङ् गतौ−ण्युट्। प्राप्तव्यान् व्रीह्याद्यान् भोज्यपदार्थान् (समाः) अ० २।६।१। अनुकूलाः क्रियाः (संवत्सरान्) वर्षकालान् (मासान्) चैत्रादिकालान्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें