अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 12
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
प्र॑तीहा॒रो नि॒धनं॑ विश्व॒जिच्चा॑भि॒जिच्च॒ यः। सा॑ह्नातिरा॒त्रावुच्छि॑ष्टे द्वादशा॒होऽपि॒ तन्मयि॑ ॥
स्वर सहित पद पाठप्र॒ति॒ऽहा॒र: । नि॒ऽधन॑म् । वि॒श्व॒ऽजित् । च॒ । अ॒भि॒ऽजित् । च॒ । य: । सा॒ह्न॒ऽअ॒ति॒रा॒त्रौ । उत्ऽशि॑ष्टे । द्वा॒द॒श॒ऽअ॒ह: । अपि॑ । तत् । मयि॑ ॥९.१२॥
स्वर रहित मन्त्र
प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः। साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन्मयि ॥
स्वर रहित पद पाठप्रतिऽहार: । निऽधनम् । विश्वऽजित् । च । अभिऽजित् । च । य: । साह्नऽअतिरात्रौ । उत्ऽशिष्टे । द्वादशऽअह: । अपि । तत् । मयि ॥९.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(प्रतीहारः) प्रति+हृञ् स्वीकारे-घञ्। उपसर्गस्य घञ्यमनुष्ये बहुलम्। पा० ६।३।१२२। इति सांहितिको दीर्घः। प्रत्युपकारः (निधनम्) नि+धा−क्यु। कुलम्। कुलवर्धनम् (विश्वजित्) सर्वजेता (च) (अभिजित्) सर्वतो जेता यज्ञः (च) (यः) (साह्नातिरात्रौ) एकरात्र इति शब्दवत् सिद्धिः-म० १०। समानेन दिनेन समाप्यमानो रात्रिमतीत्य वर्तमानश्च तौ यज्ञौ व्यवहारौ वा (उच्छिष्टे) (द्वादशाहः) अ० ९।६(४)।८। द्वादशभिर्दिनैः समाप्यमानो यज्ञः (अपि) एव (तत्) पूर्वोक्तम् (मयि) उपासके ॥
इस भाष्य को एडिट करें