अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 5
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
ऋक्साम॒ यजु॒रुच्छि॑ष्ट उद्गी॒थः प्रस्तु॑तं स्तु॒तम्। हि॑ङ्का॒र उच्छि॑ष्टे॒ स्वरः॒ साम्नो॑ मे॒डिश्च॒ तन्मयि॑ ॥
स्वर सहित पद पाठऋक् । साम॑ । यजु॑: । उत्ऽशि॑ष्टे । उ॒त्ऽगी॒थ: । प्रऽस्तु॑तम् । स्तु॒तम् । हि॒ङ्ऽका॒र । उत्ऽशि॑ष्टे । स्वर॑: । साम्न॑: । मे॒डि: । च॒ । तत् । मयि॑ ॥९.५॥
स्वर रहित मन्त्र
ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम्। हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन्मयि ॥
स्वर रहित पद पाठऋक् । साम । यजु: । उत्ऽशिष्टे । उत्ऽगीथ: । प्रऽस्तुतम् । स्तुतम् । हिङ्ऽकार । उत्ऽशिष्टे । स्वर: । साम्न: । मेडि: । च । तत् । मयि ॥९.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(ऋक्) वाक्-निघ० १।११। वेदवाणी (साम) अ० ७।५४।१। दुःखनाशकं मोक्षज्ञानम् (यजुः) अ० ७।५४।२। देवपूजनम्। विदुषां सत्कारः (उच्छिष्टे) म० १। परमात्मनि (उद्गीथः) गश्चोदि। उ० २।१०। उद्+गै गाने-थक्। वेदध्वनिः। प्रणवः (प्रस्तुतम्) प्रासङ्गिकम् (स्तुतम्) स्तोत्रम् (हिङ्कारः) अ० ७।७३।८। हि गतिवृद्ध्योः-डि+करोतेः-अण्, छान्दसं रूपम्। हिं गतिं वृद्धिं वा करोतीति। वृद्धिकरो व्यवहारः, (उच्छिष्टे) (स्वरः) उदात्तादिभेदः (साम्नः) मोक्षज्ञानस्य (मेडिः) वसिवपियजि०। उ० ४।१२५। मिल संश्लेषणे इञ्। मेडिः वाङ्नाम-निघ० १।११। वाणी (च) (तत्) तत्सर्वम् (मयि) उपासके भवेदिति शेषः ॥
इस भाष्य को एडिट करें