अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 20
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
अ॑र्धमा॒साश्च॒ मासा॑श्चार्त॒वा ऋ॒तुभिः॑ स॒ह। उच्छि॑ष्टे घो॒षिणी॒रापः॑ स्तनयि॒त्नुः श्रुति॑र्म॒ही ॥
स्वर सहित पद पाठअ॒र्ध॒ऽमा॒सा: । च॒ । मासा॑: । च॒ । आ॒र्त॒वा: । ऋ॒तुऽभि॑: । स॒ह । उत्ऽशि॑ष्टे । घो॒षिणी॑: । आप॑: । स्त॒न॒यि॒त्नु: । श्रुति॑: । म॒ही ॥९.२०॥
स्वर रहित मन्त्र
अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह। उच्छिष्टे घोषिणीरापः स्तनयित्नुः श्रुतिर्मही ॥
स्वर रहित पद पाठअर्धऽमासा: । च । मासा: । च । आर्तवा: । ऋतुऽभि: । सह । उत्ऽशिष्टे । घोषिणी: । आप: । स्तनयित्नु: । श्रुति: । मही ॥९.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(अर्धमासाः) मासपक्षाः (च) (मासाः) चैत्राद्याः (आर्तवाः) ऋतुषु समुत्पन्नाः पदार्थाः (ऋतुभिः) वसन्तादिभिः (सह) (उच्छिष्टे) (घोषिणीः) शब्दवत्यः (आपः) जलधाराः (स्तनयित्नुः) अ० ४।१५।११। मेघध्वनिः (श्रुतिः) श्रवणीया वेदवाणी (मही) भूमिः ॥
इस भाष्य को एडिट करें