Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 3
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    सन्नुच्छि॑ष्टे॒ असं॑श्चो॒भौ मृ॒त्युर्वाजः॑ प्र॒जाप॑तिः। लौ॒क्या उच्छि॑ष्ट॒ आय॑त्ता॒ व्रश्च॒ द्रश्चापि॒ श्रीर्मयि॑ ॥

    स्वर सहित पद पाठ

    सन् । उत्ऽशि॑ष्टे । अस॑न् । च॒ । उ॒भौ । मृ॒त्यु: । वाज॑: । प्र॒जाऽप॑ति: । लौ॒क्या: । उत्ऽशि॑ष्टे । आऽय॑त्ता: । व्र: । च॒ । द्र: । च॒ । अपि॑ । श्री: । मयि॑ ॥९.३॥


    स्वर रहित मन्त्र

    सन्नुच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः। लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥

    स्वर रहित पद पाठ

    सन् । उत्ऽशिष्टे । असन् । च । उभौ । मृत्यु: । वाज: । प्रजाऽपति: । लौक्या: । उत्ऽशिष्टे । आऽयत्ता: । व्र: । च । द्र: । च । अपि । श्री: । मयि ॥९.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 3

    टिप्पणीः - ३−(सन्) अस सत्तायाम्-शतृ। सत्तां प्राप्नुवन् दृश्यमानः स्थूलसंसारः (उच्छिष्टे) म० १। शेषे परमात्मनि (असन्) असत्तां प्राप्नुवन्। अदृश्यमानः परमाणुरूपसंसारः (च) (उभौ) सदसतौ (मृत्युः) शरीरत्यागः (वाजः) पराक्रमः (प्रजापतिः) प्रजापालको गुणः (लौक्याः) तत्र भवः। पा० ४।३।५३। संसारे विद्यमानाः पदार्थाः (उच्छिष्टे) (आयत्ताः) आङ्+यती प्रयत्ने-क्त। अधीनाः (व्रः) अन्येष्वपि दृश्यते। पा० ३।२।१०१। व्रज गतौ-ड। व्रजः समूहः। समष्टिरूपः (च) (द्रः) द्रु गतौ-ड प्रत्ययः पूर्ववत्। व्यक्तिः। व्यष्टिरूपः संसारः (च) (अपि) (श्रीः) सेवनीया संपत् (मयि) प्राणिनि वर्तमाना ॥

    इस भाष्य को एडिट करें
    Top