अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 8
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
अ॑ग्न्या॒धेय॒मथो॑ दी॒क्षा का॑म॒प्रश्छन्द॑सा स॒ह। उत्स॑न्ना य॒ज्ञाः स॒त्राण्युच्छि॒ष्टेऽधि॑ स॒माहि॑ताः ॥
स्वर सहित पद पाठअ॒ग्नि॒ऽआ॒धेय॑म् । अथो॒ इति॑ । दी॒क्षा । का॒म॒ऽप्र: । छन्द॑सा । स॒ह । उत्ऽस॑न्ना: । य॒ज्ञा: । स॒त्त्राणि॑ । उत्ऽशि॑ष्टे । अधि॑ । स॒म्ऽआहि॑ता: ॥९.८॥
स्वर रहित मन्त्र
अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह। उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः ॥
स्वर रहित पद पाठअग्निऽआधेयम् । अथो इति । दीक्षा । कामऽप्र: । छन्दसा । सह । उत्ऽसन्ना: । यज्ञा: । सत्त्राणि । उत्ऽशिष्टे । अधि । सम्ऽआहिता: ॥९.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(अग्न्याधेयम्) अग्नि+आ+दधातेः-यत्। वाजपेयवत् सिद्धिः-म० ७। अग्न्याधानम् (अथो) अपि च (दीक्षा) अ० ८।५।१५। नियमपालनव्रतम् (कामप्रः) आतोऽनुपसर्गे कः। पा० ३।२।३। काम+प्रा पूरणे-क। कामनापूरको व्यवहारः (छन्दसा) वेदेन (सह) साकम् (उत्सन्नाः) उत्+षद्लृ विशरणगत्यवसादनेषु-क्त। ऊर्ध्वं गताः। उन्नताः (यज्ञाः) पूजनीया व्यवहाराः (सत्राणि) गुधृपचिवचियमिसदि०। उ० ४।१६७। षद्लृ विशरणगत्यवसादनेषु-त्र। सदनानि। सभास्थानानि (उच्छिष्टे) (अधि) अधिकारपूर्वकम् (समाश्रिताः) राशीकृताः ॥
इस भाष्य को एडिट करें