अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
सू॒नृता॒ संन॑तिः॒ क्षेमः॑ स्व॒धोर्जामृतं॒ सहः॑। उच्छि॑ष्टे॒ सर्वे॑ प्र॒त्यञ्चः॒ कामाः॒ कामे॑न तातृपुः ॥
स्वर सहित पद पाठसू॒नृता॑ । सम्ऽन॑ति: । क्षेम॑: । स्व॒धा । ऊ॒र्जा । अ॒मृत॑म् । सह॑: । उत्ऽशि॑ष्टे । सर्वे॑ । प्र॒त्यञ्च॑: । कामा॑: । कामे॑न । त॒तृ॒पु॒: ॥ ९.१३॥
स्वर रहित मन्त्र
सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः। उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥
स्वर रहित पद पाठसूनृता । सम्ऽनति: । क्षेम: । स्वधा । ऊर्जा । अमृतम् । सह: । उत्ऽशिष्टे । सर्वे । प्रत्यञ्च: । कामा: । कामेन । ततृपु: ॥ ९.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(सूनृता) अ० ३।१२।२। प्रियसत्यात्मिका वाक् (संनतिः) सम्यग् नम्रता (क्षेमः) परिरक्षणम् (स्वधा) अ० २।२९।९। अन्नम् (ऊर्जा) ऊर्ज बलप्राणनयोः-पचाद्यच्। पराक्रमः (अमृतम्) मरणराहित्यम् पौरुषम् (सहः) बलम् (उच्छिष्टे) (सर्वे) (प्रत्यञ्चः) अभिमुखमञ्चन्तः प्राप्नुवन्तः (कामाः) काम्यमानाः पदार्थाः (कामेन) इष्टफलेन (ततृपुः) तृप प्रीणने लिट्, सांहितिको दीर्घः। तर्पितवन्तः ॥
इस भाष्य को एडिट करें