अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 2
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
उच्छि॑ष्टे॒ द्यावा॑पृथि॒वी विश्वं॑ भू॒तं स॒माहि॑तम्। आपः॑ समु॒द्र उच्छि॑ष्टे च॒न्द्रमा॒ वात॒ आहि॑तः ॥
स्वर सहित पद पाठउत्ऽशि॑ष्टे । द्यावा॑पृथि॒वी इति॑ । विश्व॑म् । भू॒तम् । स॒म्ऽआहि॑तम् । आप॑: । स॒मु॒द्र: । उत्ऽशि॑ष्टे । च॒न्द्रमा॑: । वात॑: । आऽहि॑त: ॥९.२॥
स्वर रहित मन्त्र
उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम्। आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥
स्वर रहित पद पाठउत्ऽशिष्टे । द्यावापृथिवी इति । विश्वम् । भूतम् । सम्ऽआहितम् । आप: । समुद्र: । उत्ऽशिष्टे । चन्द्रमा: । वात: । आऽहित: ॥९.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(द्यावापृथिवी) द्यावापृथिव्यौ। सूर्यभूमी (विश्वम्) प्रत्येकम् (भूतम्) सत्तान्वितं द्रव्यम् (आपः) व्यापनशीला जलधाराः (समुद्रः) जलौघः (चन्द्रमाः) चन्द्रलोकः (वातः) वायुः। अन्यत् पूर्ववत्-म० १ ॥
इस भाष्य को एडिट करें