Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 4
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    दृ॒ढो दृं॑हस्थि॒रो न्यो ब्रह्म॑ विश्व॒सृजो॒ दश॑। नाभि॑मिव स॒र्वत॑श्च॒क्रमुच्छि॑ष्टे दे॒वताः॑ श्रि॒ताः ॥

    स्वर सहित पद पाठ

    दृ॒ढ: । दृं॒ह॒ऽस्थि॒र: । न्य: । ब्रह्म॑ । वि॒श्व॒ऽसृज॑: । दश॑ । नाभि॑म्ऽइव । स॒र्वत॑: । च॒क्रम् । उत्ऽशि॑ष्टे । दे॒वता॑: । श्रि॒ता: ॥९.४॥


    स्वर रहित मन्त्र

    दृढो दृंहस्थिरो न्यो ब्रह्म विश्वसृजो दश। नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥

    स्वर रहित पद पाठ

    दृढ: । दृंहऽस्थिर: । न्य: । ब्रह्म । विश्वऽसृज: । दश । नाभिम्ऽइव । सर्वत: । चक्रम् । उत्ऽशिष्टे । देवता: । श्रिता: ॥९.४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 4

    टिप्पणीः - ४−(दृढः) प्रगाढः। कठिनः (दृंहस्थिरः) दृहि वृद्धौ घञ्+ष्ठा गतिनिवृत्तौ किरच्। वृद्ध्या दृढीकृतः (न्यः) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्। वा० पा० ३।२।५। णीञ् प्रापणे-क। छान्दसो यणादेशः। नियः। नायको गुणः (ब्रह्म) (वेदज्ञानम्) (विश्वसृजः) जगतः स्रष्टारः (दश) आकाशवायुतेजोजलपृथिव्यः-इति, पञ्चभूतानि शब्दस्पर्शरूपरसगन्धाः-इति पञ्चतन्मात्राणि च दशसंख्याकाः (नाभिम्) चक्रावयवभेदम् (इव) यथा (सर्वतः) उभसर्वतसोः कार्या०। वा० पा० २।३।२। इति सर्वतसो योगे द्वितीया। सर्वं व्याप्य (चक्रम्) रथचक्रम् (उच्छिष्टे) म० १ परमात्मनि (देवताः) देवाः दिव्यपदार्थाः (श्रिताः) स्थिताः ॥

    इस भाष्य को एडिट करें
    Top