अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 21
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - स्वराडनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
शर्क॑राः॒ सिक॑ता॒ अश्मा॑न॒ ओष॑धयो वी॒रुध॒स्तृणा॑। अ॒भ्राणि॑ वि॒द्युतो॑ व॒र्षमुच्छि॑ष्टे॒ संश्रि॑ता श्रि॒ता ॥
स्वर सहित पद पाठशर्क॑रा: । सिक॑ता: । अश्मा॑न: । ओष॑धय: । वी॒रुध॑: । तृणा॑ । अ॒भ्राणि॑ । वि॒ऽद्युत॑: । व॒र्षम् । उत्ऽशि॑ष्टे । सम्ऽश्रि॑ता । श्रि॒ता ॥९.२१।
स्वर रहित मन्त्र
शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा। अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥
स्वर रहित पद पाठशर्करा: । सिकता: । अश्मान: । ओषधय: । वीरुध: । तृणा । अभ्राणि । विऽद्युत: । वर्षम् । उत्ऽशिष्टे । सम्ऽश्रिता । श्रिता ॥९.२१।
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(शर्कराः) श्रः करन्। उ० ४।३। शॄ हिंसायाम्-करन्, टाप्। उपलखण्डाः (सिकताः) बालुकाः (अश्मानः) प्रस्तराः (ओषधयः) अन्नादयः (वीरुधः) विरोहणशीला लतादयः (तृणा) गवादिभक्षणानि (अभ्राणि) अभ्र गतौ-अच्। गतिमन्तो मेघाः (विद्युतः) तडितः (वर्षम्) वृष्टिः, (उच्छिष्टे) (संश्रिता) परस्परस्थितानि (श्रिता) स्थितानि ॥
इस भाष्य को एडिट करें