अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 1
यद॑स्या अंहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्या एज॒तो गो॑श॒फे श॑कु॒लावि॑व ॥
स्वर सहित पद पाठयत् । अ॒स्या॒: । अंहु॒ऽभेद्या: । कृ॒धु । स्थू॒लम् । उ॒पऽअत॑सत् ॥ मु॒ष्कौ । इत् । अ॒स्या॒: । ए॒ज॒त॒: । गो॑ऽश॒फे । श॑कु॒लौऽइ॑व ॥१३६.१॥
स्वर रहित मन्त्र
यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्। मुष्काविदस्या एजतो गोशफे शकुलाविव ॥
स्वर रहित पद पाठयत् । अस्या: । अंहुऽभेद्या: । कृधु । स्थूलम् । उपऽअतसत् ॥ मुष्कौ । इत् । अस्या: । एजत: । गोऽशफे । शकुलौऽइव ॥१३६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - [पदपाठ के लिये सूचना सूक्त १२७ देखो ॥]यह मन्त्र यजुर्वेद में है−२३।२८। और महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ३३२ में व्याख्यात है ॥ १−(यत्) यदा (अस्याः) अग्रे वर्तमानायाः (अंहुभेद्याः) भृमृशीङ्०। उ० १।७। अम रोगे पीडने च−उप्रत्ययः, हुक् च। अंहुरः=अंहस्वान्−निरु० ६।२७। अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१८। भिदिर् विदारणे−ईप्रत्ययः। अंहुना पापेन भेदनीया विदारणीया या सा अंहुभेदी तस्याः प्रजायाः (कृधु) ह्रस्वम्−निघ० ३।२। अल्पं पापम् (स्थूलम्) महत् पापम् (उपातसत्) तसु उपक्षये उपक्षेपे च−लङ् लडर्थे। उपक्षिपति नाशयति (मुष्कौ) सृवृभूशुषिमुषिभ्यः कक्। उ० ३।४१। मुष स्तेये−कक्। तस्करौ। स्त्रीपुरुषरूपौ रात्रिदिवसभवौ चौरौ वा (इत्) एव (अस्याः) प्रजायाः (एजतः) कम्पेते। बिभीतः (गोशफे) गोखुरचिह्ने (शकुलौ) मद्गुरादयश्च। उ० १।४१। शक्लृ शक्तौ−उरच्, रस्य लः। मत्स्यौ (इव) यथा ॥
इस भाष्य को एडिट करें