Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 12
    सूक्त - देवता - प्रजापतिः छन्दः - निचृत्ककुबुष्णिक् सूक्तम् - कुन्ताप सूक्त

    सुदे॑वस्त्वा म॒हान॑ग्नी॒र्बबा॑धते मह॒तः सा॑धु खो॒दन॑म्। कु॒सं पीव॒रो न॑वत् ॥

    स्वर सहित पद पाठ

    सुदे॑व: । त्वा । म॒हान् । अ॑ग्नी॒: । बबाध॑ते॒ । मह॒त: । सा॑धु । खो॒दन॑म् ॥ कु॒सम् । पीव॒र: । नव॑त् ॥१३६.१२॥


    स्वर रहित मन्त्र

    सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम्। कुसं पीवरो नवत् ॥

    स्वर रहित पद पाठ

    सुदेव: । त्वा । महान् । अग्नी: । बबाधते । महत: । साधु । खोदनम् ॥ कुसम् । पीवर: । नवत् ॥१३६.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 12

    टिप्पणीः - १२−(सुदेवः) सुविजिगीषुः (त्वा) प्रजाजनसकाशात् (महान्) (अग्नीः) अग्नीन्। आत्मिकसामाजिकपराक्रमैः-इत्यर्थः (बबाधते) बाधते। निवारयति (महतः) विशालान्। विशालैः (साधु) यथा तथा। यथावत् प्रकारेण (खोदनम्) खुड संवरणे भेदने च−ल्युट्। भेदनम्। सन्धिकरणम्। (कुसम्) कुस संश्लेषणे−क, परस्परसंगमनम् (पीवरः) अर्त्तिकमिभ्रमि०। उ० ३।१३२। पीव स्थौल्ये−अरप्रत्ययः, स च चित्। पुष्टः पुरुषः (नवत्) नवत इति गतिकर्मा−निघ० २।१४। प्राप्नुयात् ॥

    इस भाष्य को एडिट करें
    Top