Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 11
    सूक्त - देवता - प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    म॑हान॒ग्नी म॑हान॒ग्नं धाव॑न्त॒मनु॑ धावति। इ॒मास्तद॑स्य॒ गा र॑क्ष॒ यभ॒ माम॑द्ध्यौद॒नम् ॥

    स्वर सहित पद पाठ

    म॒हा॒न् । अ॒ग्नी इति॑ । म॑हान् । अ॒ग्नम्‌ । धाव॑न्त॒म् । अनु॑ । धावति ॥ इ॒मा: । तत् । अ॑स्य॒ । गा: । र॑क्ष॒ । यभ॒ । माम् । अ॑द्धि॒ । औद॒नम् ॥११३६.११॥


    स्वर रहित मन्त्र

    महानग्नी महानग्नं धावन्तमनु धावति। इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥

    स्वर रहित पद पाठ

    महान् । अग्नी इति । महान् । अग्नम्‌ । धावन्तम् । अनु । धावति ॥ इमा: । तत् । अस्य । गा: । रक्ष । यभ । माम् । अद्धि । औदनम् ॥११३६.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 11

    टिप्पणीः - ११−(महान्) (अग्नी) म० । आत्मिकसामाजिकपराक्रमौ (महान्) (अग्नम्) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। अग गतौ−न प्रत्ययः। ज्ञानवन्तम् (धावन्तम्) शीघ्रं गच्छन्तम् (अनु) अनुकृत्य (धावति) शीघ्रं गच्छति (इमाः) (तत्) ततः (अस्य) पुरुषस्य (गाः) भूमीः, (रक्ष) (यभ) मस्य भः। हे यम। न्यायकारिन् (माम्) प्रजाजनम् (अद्धि) अद भक्षणे, अन्तर्गतणिजर्थः। आदय। खादय। (औदनम्) स्वार्थे अण्। भोजनम् ॥

    इस भाष्य को एडिट करें
    Top