Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 4
    सूक्त - देवता - प्रजापतिः छन्दः - भुरिगनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    यद्दे॒वासो॑ ललामगुं॒ प्रवि॑ष्टी॒मिन॑माविषुः। स॑कु॒ला दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॒ यथा॑ ॥

    स्वर सहित पद पाठ

    यत् । दे॒वास॑ । ल॒लाम॑ऽगुम् । प्र । वि॒ष्टी॒मिन॑म् । आवि॑षु: ॥ स॒कु॒ला । दे॒दि॒श्य॒ते॒ । नारी॑ । स॒त्यस्य॑ । अ॑क्षि॒भुव॑: । य॒था॒ ॥१३६.४॥


    स्वर रहित मन्त्र

    यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः। सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥

    स्वर रहित पद पाठ

    यत् । देवास । ललामऽगुम् । प्र । विष्टीमिनम् । आविषु: ॥ सकुला । देदिश्यते । नारी । सत्यस्य । अक्षिभुव: । यथा ॥१३६.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 4

    टिप्पणीः - यह मन्त्र कुछ भेद से यजुर्वेद में है−२३।२९। और महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ३३४ में व्याख्यात है ॥ ४−(यत्) यथा (देवासः) विद्वांसः (ललामगुम्) प्रथेरमच्। उ० ।६८। लल ईप्सायाम्−अमच् पृषोदरादिदीर्घः। गच्छतेः-डु। ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु−अमरः २३।१४२। प्राधान्यस्य गमयितारं प्रापयितारम् (प्र) (विष्टीमिनम्) वि+ष्टीम क्लेदे−घञ्। अत इनिठनौ। पा० ।२।११। विष्टीम−इनि। विशेषेण आर्द्रभावेन कोमलत्वेन युक्तं, न्यायम् (आविषुः) अव रक्षणगतिप्रवेशादिषु−लुङ्। प्रविष्टवन्तः (सकुला) कुलैः सन्तानैः सह वर्त्तमाना (देदिश्यते) दिश दाने−यङ्प्रत्ययः। पुनः पुनरुपदेशं करोति (नारी) नरस्य स्त्री (सत्यस्य) यथार्थज्ञानस्य (अक्षिभुवः) अक्षि+भू−क्विप्। अक्षिभ्यां भवस्य प्रत्यक्षस्य (यथा) ॥

    इस भाष्य को एडिट करें
    Top