अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 5
म॑हान॒ग्न्यतृप्नद्वि॒ मोक्र॑द॒दस्था॑नासरन्। शक्ति॑का॒नना॑ स्वच॒मश॑कं सक्तु॒ पद्य॑म् ॥
स्वर सहित पद पाठम॒हा॒न् । अ॒ग्नी इति॑ । अ॑तृप्नत् । वि । मोक्र॑द॒त् । अस्था॑ना । आसरन् ॥ श॑क्तिका॒नना: । स्व॑च॒मश॑कम् । सक्तु॒ । पद्य॑म् ॥१३६.५॥
स्वर रहित मन्त्र
महानग्न्यतृप्नद्वि मोक्रददस्थानासरन्। शक्तिकानना स्वचमशकं सक्तु पद्यम् ॥
स्वर रहित पद पाठमहान् । अग्नी इति । अतृप्नत् । वि । मोक्रदत् । अस्थाना । आसरन् ॥ शक्तिकानना: । स्वचमशकम् । सक्तु । पद्यम् ॥१३६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(महान्) समर्थः पुरुषः (अग्नी) प्रगृह्यत्वाभावः। अग्निरूपौ आत्मिकसामाजिकप्रतापौ (अतृप्नत्) तर्पयेत् (वि) विशेषेण (मोक्रदत्) क्रद, क्रदि वैकल्ये। नैव व्याकुलो भवेत् (अस्थाना) सुपां सुलुक्। पा० ७।१।३९। विभक्तेराकारः। अयोग्यस्थानम् (आसरन्) सृ गतौ−शतृ। आगच्छन् (शक्तिकाननाः) कन दीप्तौ−णिच्, ल्युट्। शक्तिं कानयन्ति दीपयन्तीति शक्तिकाननाः। सामर्थ्यप्रकाशकाः (स्वचमशकम्) अत्यविचमितमि०। उ० ३।११७। चमु अदने−असच्। सस्य शः, स्वार्थे कन्। स्वेभ्यो ज्ञातिभ्यः पिष्टकमेदं लड्डुकादिकम् (सक्तु) भ्रष्टयवादिचूर्णम् (पद्यम्) वयं प्राप्नुयाम ॥
इस भाष्य को एडिट करें