अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 2
यदा॑ स्थू॒लेन॒ पस॑साणौ मु॒ष्का उपा॑वधीत्। विष्व॑ञ्चा व॒स्या वर्ध॑तः॒ सिक॑तास्वेव॒ गर्द॑भौ ॥
स्वर सहित पद पाठयदा॑ । स्थू॒लेन॒ । पय॑सा । अणो । मु॒ष्कौ । उप॑ । अ॒व॒धी॒त् ॥ विष्व॑ञ्चा । व॒स्या । वर्धत॒: । सिक॑तासु । ए॒व । गर्द॑भौ ॥१३६.२॥
स्वर रहित मन्त्र
यदा स्थूलेन पससाणौ मुष्का उपावधीत्। विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥
स्वर रहित पद पाठयदा । स्थूलेन । पयसा । अणो । मुष्कौ । उप । अवधीत् ॥ विष्वञ्चा । वस्या । वर्धत: । सिकतासु । एव । गर्दभौ ॥१३६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यदा) (स्थूलेन) महता (पससा) अथ० ४।४।६। पस बन्धे बाधे च−असुन्। पसः=राष्ट्रम्−दयानन्दभाष्ये, यजु० २३।२२। राज्यप्रबन्धेन (अणौ) सूक्ष्मे न्याये (मुष्कौ) म० १। तस्करौ (उप) व्याप्तौ (अवधीत्) हन्ति। नाशयति (विष्वञ्चा) विषु+अञ्चु गतिपूजनयोः−क्विन्। सर्वतः पूज्यौ (वस्या) वसु−ईयसुन्, ईकारलोपः। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेर्डा। वसीयसौ। अतिश्रेष्ठौ स्त्रीपुरुषौ (वर्धतः) (सिकतासु) पृषिरञ्जिभ्यां कित्। उ० ३।१११। सिक सेचने−अतच्। बालुयुक्तभूमिषु (एव) सादृश्ये। इव (गर्दभौ) कॄशॄशलिकलिगर्दिभ्योऽभच्। उ० ३।१२२। गर्द शब्दे−अभच्। द्वे श्वेतकुमुदे ॥
इस भाष्य को एडिट करें