Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 10
    सूक्त - देवता - प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    म॑हान॒ग्नी कृ॑कवाकं॒ शम्य॑या॒ परि॑ धावति। अ॒यं न॑ वि॒द्म यो मृ॒गः शी॒र्ष्णा ह॑रति॒ धाणि॑काम् ॥

    स्वर सहित पद पाठ

    म॒हा॒न् । अ॒ग्नी इति॑ । कृ॑कवाक॒म् । शम्य॑या॒ । परि॑ । धावति ॥ अ॒यम् । न । वि॒द्म । य: । मृ॒ग॒: । शी॒र्ष्णा । ह॑रति॒ । धाणिकम् ॥१३६.१०॥


    स्वर रहित मन्त्र

    महानग्नी कृकवाकं शम्यया परि धावति। अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥

    स्वर रहित पद पाठ

    महान् । अग्नी इति । कृकवाकम् । शम्यया । परि । धावति ॥ अयम् । न । विद्म । य: । मृग: । शीर्ष्णा । हरति । धाणिकम् ॥१३६.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 10

    टिप्पणीः - १०−(महान्) (अग्नी) म० ६। अग्निभ्याम्। आत्मिकसामाजिकबलाभ्याम् (कृकवाकम्) सृवृभूशुषिमुषिभ्यः कक्। उ० ३।४१। करोतेः−कक्+वच कथने−घञ्। कृकः कृत्रिमः कल्पितो वाको वचनं यस्य तम्। कृत्रिमवाचिनम् (शम्यया) अथ० ६।१३८।४। शान्तिकरेण युगकीलतुल्यशस्त्रेण (परि) प्रति (धावति) शीघ्रं गच्छति (अयम्) (न) सम्प्रति−निरु० ७।३१। (विद्म) जानीमः (यः) (मृगः) पशुतुल्यो मूर्खः (शीर्ष्णा) शिरसा। कल्पितविचारेण (हरति) लुण्टति (धाणिकाम्) आणको लूघूशिङ्घिधाञ्भ्यः। उ० ३।८३। दधातेः-आणकप्रत्ययः, टाप् अत इत्त्वम्। वस्तीम्। राजधान्यादिकाम् ॥

    इस भाष्य को एडिट करें
    Top