अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 14
विदे॑वस्त्वा म॒हान॑ग्नी॒र्विबा॑धते मह॒तः सा॑धु खो॒दन॑म्। कु॑मारी॒का पि॑ङ्गलि॒का कार्द॒ भस्मा॑ कु॒ धाव॑ति ॥
स्वर सहित पद पाठविदे॑व: । त्वा । म॒हान् । अग्नी: । विबा॑धते । मह॒त: । सा॑धु । खो॒दन॑म् । कु॒मा॒रि॒का । पि॑ङ्गलि॒का । कार्द॒ । भस्मा॑ । कु॒ । धाव॑ति ॥१३६.१४॥
स्वर रहित मन्त्र
विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम्। कुमारीका पिङ्गलिका कार्द भस्मा कु धावति ॥
स्वर रहित पद पाठविदेव: । त्वा । महान् । अग्नी: । विबाधते । महत: । साधु । खोदनम् । कुमारिका । पिङ्गलिका । कार्द । भस्मा । कु । धावति ॥१३६.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(विदेवः) दिवु क्रीडामदादिषु−अच्। विगतमदः। निरहंकारः पुरुषः (विबाधते) निवारयति (कुमारिका) कमेः किदुच्चोपधायाः। उ० ३।१३८। कमु कान्तौ-आरन्, कन् टाप् अकारस्य उकारः, अत इत्त्वम्। कमनीया कन्या (पिङ्गलिका) कलस्तृपश्च। उ० १।१०४। पिजि दीप्तौ, वासे, बले, हिंसायां दाने च-कलप्रत्ययः, कन्, टाप्, अत इत्त्वम्। दीप्यमाना। शोभमाना (कार्द) कर्द कुत्सिते शब्दे-घञ्, विभक्तेर्लुक्। कार्दम् कर्दमम्। पङ्कम् (भस्मा) छान्दसो दीर्घः। भस्म। दग्धगोमयादिविकारम् (कु) कौ। भूम्याम् (धावति) धावु गतिशुद्ध्योः। शोधयति। अन्यद् यथा म० १२ ॥
इस भाष्य को एडिट करें