अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 11
सूक्त - तिरश्चीराङ्गिरसो द्युतानो वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १३७
त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ। त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥
स्वर सहित पद पाठत्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओज॑: । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒त: । ज॒घ॒न्थ॒ ॥ त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒र॒: । वध॑त्रै: । त्वम् । गा: । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्द॒: ॥१३७.११॥
स्वर रहित मन्त्र
त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ। त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥
स्वर रहित पद पाठत्वम् । ह । त्यत् । अप्रतिऽमानम् । ओज: । वज्रेण । वज्रिन् । धृषित: । जघन्थ ॥ त्वम् । शुष्णस्य । अव । अतिर: । वधत्रै: । त्वम् । गा: । इन्द्र । शच्या । इत् । अविन्द: ॥१३७.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(त्वम्) (ह) एव (त्यत्) तत्। प्रसिद्धम् (अप्रतिमानम्) प्रतिमानमुपमा। निरुपमम् (ओजः) बलम् (वज्रेण) आयुधेन (वज्रिन्) हे वज्रवन् (धृषितः) धृष्टः। निर्भयः (जघन्थ) हन्तेर्लिट्। हतवान् नाशितवानसि (त्वम्) (शुष्णस्य) शोषकस्य शत्रोः (अव अतिरः) अवतारितवानसि। नीचैः कृतवानसि (वधत्रैः) अमिनक्षियजिवधि०। उ० ३।१०। वध संयमने-अत्रन्, यद्वा, हन हिंसागत्योः-अत्रन्, वधादेशः। संयमनसाधनैः हननसाधनैर्वा आयुधैः (त्वम्) (गाः) शत्रुभूमीः (इन्द्र) महाप्रतापिन् राजन् (शच्या) स्वप्रज्ञया (इत्) एव (अविन्दः) अलभथाः ॥
इस भाष्य को एडिट करें