अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 9
सूक्त - तिरश्चीराङ्गिरसो द्युतानो वा
देवता - इन्द्राबृहस्पतिः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १३७
अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं तित्विषा॒णः। विशो॒ अदे॑वीर॒भ्या॒चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ॥
स्वर सहित पद पाठअध॑ । द्र॒प्स: । अं॒शु॒ऽमत्या॑: । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒ण: ॥ विश॑: । अदे॑वी: । अ॒भि । आ॒ऽचर॑न्ती: । बृह॒स्पति॑ना ॥ यु॒जा । इन्द्र॑: । स॒स॒हे॒ ॥१३७.९॥
स्वर रहित मन्त्र
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः। विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥
स्वर रहित पद पाठअध । द्रप्स: । अंशुऽमत्या: । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाण: ॥ विश: । अदेवी: । अभि । आऽचरन्ती: । बृहस्पतिना ॥ युजा । इन्द्र: । ससहे ॥१३७.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(अव) अथ (द्रप्सः) म० ७। अभिमानी (अंशुमत्याः) म० ७। विभागवत्या नद्याः (उपस्थे) समीपे (अधारयत्) अपोषयत् (तन्वम्) स्वशरीरम् (तित्विषाणः) त्विष दीप्तौ-कानच्। दीप्यमानः (विशः) प्रजाः। शत्रुसेनाः (अदेवीः) कुव्यवहारवतीः (अभि) सर्वतः (आचरन्तीः) विचरन्तीः (बृहस्पतिना) बृहतीनां महतीनां विद्यानां स्वामिना (युजा) सहायेन (इन्द्रः) परमैश्वर्यवान् राजा (ससाहे) षह अभिभवे-लिट्। अभिबभूव ॥
इस भाष्य को एडिट करें