अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 5
इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन्। वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥
स्वर सहित पद पाठइन्दु॑: । इन्द्रा॑य । प॒व॒ते॒ । इति॑ । दे॒वास॑: । अ॒ब्रु॒व॒न् ॥ वा॒च: । पति॑: । म॒ख॒स्य॒ते॒ । विश्व॑स्य । ईशा॑न: । ओज॑सा ॥१३७.५॥
स्वर रहित मन्त्र
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन्। वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥
स्वर रहित पद पाठइन्दु: । इन्द्राय । पवते । इति । देवास: । अब्रुवन् ॥ वाच: । पति: । मखस्यते । विश्वस्य । ईशान: । ओजसा ॥१३७.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(इन्दुः) सोमः। तत्त्वरसः (इन्द्राय) परमैश्वर्यवते पुरुषाय (पवते) शुष्यति (इति) एवम् (देवासः) विद्वांसः (अब्रुवन्) अकथयन् (वाचः) वेदवाण्याः (पतिः) स्वामी परमात्मा (मखस्यते) मख गतौ, लालसायां सुगागमः। गतिं पुरुषार्थमिच्छति (विश्वस्य) सर्वस्य (ईशानः) राजा (ओजसा) सामर्थ्येन ॥
इस भाष्य को एडिट करें