Loading...
अथर्ववेद > काण्ड 20 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 2
    सूक्त - बुधः देवता - विश्वे देवाः, ऋत्विक्स्तुतिः छन्दः - जगती सूक्तम् - सूक्त १३७

    कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये। नि॑ष्टि॒ग्र्य: पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥

    स्वर सहित पद पाठ

    कृप॑त् । न॒र॒: । क॒पृथम् । उत्‌ । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये ॥ नि॒ष्टि॒ग्र्य॑: । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाध॑: । इ॒ह । सोम॑ऽपीतये ॥१३७.२॥


    स्वर रहित मन्त्र

    कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये। निष्टिग्र्य: पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥

    स्वर रहित पद पाठ

    कृपत् । नर: । कपृथम् । उत्‌ । दधातन । चोदयत । खुदत । वाजऽसातये ॥ निष्टिग्र्य: । पुत्रम् । आ । च्यवय । ऊतये । इन्द्रम् । सऽबाध: । इह । सोमऽपीतये ॥१३७.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 2

    टिप्पणीः - २−(कपृत्) क सुखम्+पृ पूर्त्तौ-क्विप् तुक् च विभक्तेर्लुक्। हे कपृतः। सुखेन पूरकाः (नरः) हे नेतारः (कपृथम्) हनिकुषिनी०। उ० २।२। क+पृ पूर्त्तौ-क्थन्। सुखेन पूरयितारम् (उत्) उत्कर्षेण (दधातन) धारयत (चोदयत) प्रेरयत (खुदत) खुर्द क्रीडायाम्, रेफलोपः। क्रीडयत। सुखयत (वाजसातये) धनानां लाभाय (निष्टिग्र्यः) नि+इष्टि, पृषोदरादिरूपम्+गॄ विज्ञापने-क्विप्। निष्टिम् निश्चिताम् इष्टिम् इष्टक्रियां गारयते विज्ञापयतीति निष्टिग्रीः तस्या जनन्याः (पुत्रम्) (आ) समन्तात् (च्यवय) च्यु सहने, एकवचनं छान्दसम्। च्यवयत। उत्साहिनं कुरुत (ऊतये) रक्षायै (इन्द्रम्) परमैश्वर्यवन्तं शूरम् (सबाधः) स्यतीति सः। षो अन्तकर्मणि-ड+बाधृ लोडने प्रतिघाते-क्विप्। सबाधः ऋत्विजः-निघ० ३।१८। नाशस्य प्रतिघातकाः (इह) अत्र (सोमपीतये) तत्त्वरसपानाय ॥

    इस भाष्य को एडिट करें
    Top