Loading...
अथर्ववेद > काण्ड 20 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 8
    सूक्त - तिरश्चीराङ्गिरसो द्युतानो वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १३७

    द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो अंशु॒मत्याः॑। नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥

    स्वर सहित पद पाठ

    द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्य॑: । अं॒शु॒ऽमत्या॑: ॥ नभ॑: । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । व॒: । वृ॒ष॒ण॒: । युध्य॑त । आ॒जौ ॥१३७.८॥


    स्वर रहित मन्त्र

    द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः। नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥

    स्वर रहित पद पाठ

    द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्य: । अंशुऽमत्या: ॥ नभ: । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । व: । वृषण: । युध्यत । आजौ ॥१३७.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 8

    टिप्पणीः - ८−(द्रप्सम्) म० ७। गर्ववन्तम् (अपश्यम्) अदर्शम् (विषुणे) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।। विष विप्रयोगे-उनन् कित्। विषुणस्य विषमस्य-निरु० ४।१९। विरुद्धाचरणे। अन्याये (चरन्तम्) विचरन्तम् (उपह्वरे) अथ० २०।२२।९। समीपे (नद्यः) नद्याः (अंशुमत्याः) म० ७। विभागवत्याः। सीमायुक्तायाः (नभः) विभक्तेर्लुक्। नभसः। आकाशात् (न) यथा (कृष्णम्) म० ७। काकम् (अवतस्थिवांसम्) अवस्थितम् (इष्यामि) इष गतौ। प्रेरयामि (वः) युष्मान् (वृषणाः) अथ० ११।१।२। हे ऐश्वर्यवन्तः। वीराः (युध्यत) संप्रहरत (आजौ) अ० २०।१६।२। संग्रामे ॥

    इस भाष्य को एडिट करें
    Top