Loading...
अथर्ववेद > काण्ड 20 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 3
    सूक्त - वामदेवः देवता - दधिक्राः छन्दः - अनुष्टुप् सूक्तम् - सूक्त १३७

    द॑धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑। सु॑र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥

    स्वर सहित पद पाठ

    द॒धि॒ऽक्राव्ण॑: । अ॒का॒रि॒ष॒म् । जि॒ष्णो: । अश्व॑स्य । वा॒जिन॑: ॥ सु॒र॒भि । न॒: । मुखा॑ । क॒र॒त् । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥१३७.३॥


    स्वर रहित मन्त्र

    दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥

    स्वर रहित पद पाठ

    दधिऽक्राव्ण: । अकारिषम् । जिष्णो: । अश्वस्य । वाजिन: ॥ सुरभि । न: । मुखा । करत् । प्र । न: । आयूंषि । तारिषत् ॥१३७.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 3

    टिप्पणीः - यह मन्त्र ऋग्वेद में है-४।३९।६; यजु० २३।३२; साम० पू० ४।७।७ ॥ ३−(दधिक्राव्णः) अथ० ३।१६।६। डुधाञ् धारणपोषणयोः-कि, दधि+क्रमु पादविक्षेपे वा क्रदि आह्वाने, क्रन्द सातत्यशब्दे-वनिप्। दधिक्रावा अश्वनाम-निघ० १।१४। दधत् क्रामतीति वा दधत् क्रन्दतीति वा दधदाकारो भवतीति वा-निरु० २।२७। दधिः, धारयिता सन् क्रामतीति वा क्रन्दतीति वा दधिक्रावा, तस्य तथाभूतस्य (अकारिषम्) अहं कर्म कृतवानस्मि (जिष्णोः) मार्गजयशीलस्य (अश्वस्य) तुरङ्गस्य (वाजिनः) शीघ्रगामिनः (सुरभि) अ० १२।१।२३। सुर ऐश्वर्यदीप्त्योरित्यस्माद् बाहुलकादौणादिकोऽभिच् प्रत्ययः-इति दयानन्दो यजु० १२।३। सुरभीणि ऐश्वर्यवन्ति (नः) अस्माकम् (मुखा) मुखानि (करत्) कुर्यात् तत् कर्म (नः) अस्माकम् (आयूंषि) जीवनानि (प्र तारिषत्) वर्धयेत् ॥

    इस भाष्य को एडिट करें
    Top