Loading...
अथर्ववेद > काण्ड 20 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 7
    सूक्त - तिरश्चीराङ्गिरसो द्युतानो वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १३७

    अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑। आव॒त्तमिन्द्रः॒ शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥

    स्वर सहित पद पाठ

    अव॑ । द्र॒प्स: । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒न: । कृ॒ष्ण: । द॒शऽभि॑: । स॒हस्रै॑: ॥ आव॑त् । तम् । इन्द्र॑: । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑ती: । नृ॒ऽमना॑: । अ॒ध॒त्त॒ ॥१३७.७॥


    स्वर रहित मन्त्र

    अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः। आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥

    स्वर रहित पद पाठ

    अव । द्रप्स: । अंशुऽमतीम् । अतिष्ठत् । इयान: । कृष्ण: । दशऽभि: । सहस्रै: ॥ आवत् । तम् । इन्द्र: । शच्या । धमन्तम् । अप । स्नेहिती: । नृऽमना: । अधत्त ॥१३७.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 7

    टिप्पणीः - मन्त्र ७-११ ऋग्वेद में हैं-८।९६ [सायणभाष्य ८]। १३-१७; मन्त्र ७ सामवेद-पू० ४।४।१ ॥ ७−(द्रप्सः) वृतॄवदिवचि०। उ० ३।६२। दृप हर्षमोहनयोः, उत्क्लेशे, गर्वे च-सप्रत्ययः। गर्ववान् (अंशुमतीम्) मृगय्वादयश्च। उ० १।३७। अंश विभाजने-कु। विभागवतीं सीमायुक्तां नदीम् (अव अतिष्ठत्) अवस्थितवान् (इयानः) इण् गतौ-कानच्। गच्छन् (कृष्णः) अ० ७।६४।१। श्वा काक इति कुत्सायाम्-निरु० ३।१८। काक इव निन्दितो दस्युः शत्रुः (दशभिः सहस्रैः) बहुभिः सेनाभिः (आवत्) रक्षितवान् (तम्) शत्रुम् (इन्द्रः) महाप्रतापी शूरः (शच्या) प्रज्ञया-निघ० ३।९। (धमन्तम्) उच्छ्वसन्तम्। पराभवेन दीर्घं श्वसन्तम् (स्नेहितीः) स्नेहतिः स्नेहतिर्वधकर्मा-निघ० २।१९। स्वकीया मारणशीलाः सेनाः (नृमणाः) नेतृतुल्यमनस्कः (अप अधत्त) दूरे धारितवान् निवर्तितवान् ॥

    इस भाष्य को एडिट करें
    Top