Loading...
अथर्ववेद > काण्ड 20 > सूक्त 137

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 6
    सूक्त - ययातिः देवता - सोमः पवमानः छन्दः - अनुष्टुप् सूक्तम् - सूक्त १३७

    स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः। सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥

    स्वर सहित पद पाठ

    स॒हस्र॑ऽधार: । प॒व॒ते॒ । स॒मु॒द्र: । वा॒च॒म्ऽई॒ड्ख॒य: ॥ सोम॑: । पति: । र॒यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥१३७.६॥


    स्वर रहित मन्त्र

    सहस्रधारः पवते समुद्रो वाचमीङ्खयः। सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥

    स्वर रहित पद पाठ

    सहस्रऽधार: । पवते । समुद्र: । वाचम्ऽईड्खय: ॥ सोम: । पति: । रयीणाम् । सखा । इन्द्रस्य । दिवेऽदिवे ॥१३७.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 6

    टिप्पणीः - ६−(सहस्रधारः) बहुधाराभिर्युक्तः (पवते) शुध्यति (समुद्रः) जलधिर्यथा (वाचमीड्खयः) ईखि गतौ, ण्यन्तस्य सुप्युपपदे खश्प्रत्ययः। वाचां विद्यानां प्रवर्त्तकः (सोमः) तत्त्वरसः (पतिः) स्वामी (रयीणाम्) धनानाम् (सखा) (इन्द्रस्य) परमैश्वर्यवतः पुरुषस्य (दिवेदिवे) दिने दिने ॥

    इस भाष्य को एडिट करें
    Top