Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - शाक्वरातिशाक्वरगर्भा सप्तपदा चतुरवसाना प्रकृतिः सूक्तम् - अध्यात्म सूक्त

    यस्मि॑न्वि॒राट्प॑रमे॒ष्ठी प्र॒जाप॑तिर॒ग्निर्वै॑श्वान॒रः स॒ह प॒ङ्क्त्या श्रि॒तः। यः पर॑स्य प्रा॒णं प॑र॒मस्य॒ तेज॑ आद॒दे। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

    स्वर सहित पद पाठ

    यस्मि॑न् । वि॒ऽराट् । प॒र॒मे॒ऽस्थी । प्र॒जाऽप॑ति: । अ॒ग्नि: । वै॒श्वा॒न॒र: । स॒ह । प॒ङ्क्त्या । श्रि॒त: । य: । पर॑स्य । प्रा॒णम् । प॒र॒मस्य॑ । तेज॑: । आ॒ऽद॒दे । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.५॥


    स्वर रहित मन्त्र

    यस्मिन्विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः। यः परस्य प्राणं परमस्य तेज आददे। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥

    स्वर रहित पद पाठ

    यस्मिन् । विऽराट् । परमेऽस्थी । प्रजाऽपति: । अग्नि: । वैश्वानर: । सह । पङ्क्त्या । श्रित: । य: । परस्य । प्राणम् । परमस्य । तेज: । आऽददे । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 5

    पदार्थ -

    १. (यस्मिन्) = जिस प्रभु में विराट [इयं पृथिवी विराट-गो-उ०६.२] यह पृथिवी, परमेष्ठी [आपो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति-शत०८.२.३.१३] प्रजा के रक्षक ये परम स्थान में विस्तृत होकर वृष्ट होनेवाले जल, (अग्नि:) = अग्नि, (प्रजापति:) = [एतद् वै प्रजापते: प्रत्यक्ष रूपं यद् वायु:-कौ० १९.२] वायु (वैश्वनर:) = आकाश [एष वै बहुलो वैश्वनरो यदाकाश: शत०१०.६.१.६] (पङ्क्तया सह) = पाँच ज्ञानेन्द्रियाँ, पाँच कर्मेन्द्रियाँ, पाँच प्राणों के साथ होनेवाला जीव (शृतः) = आश्रित है। २. (परस्य प्राणम्) = परा प्रकृतिरूप जीव के प्राण को [इतरस्त्वन्या प्रवृति विद्धि में परां जीवभूताम्] तथा (परमस्य तेजः) = परम स्थान में स्थित सूर्य के तेज को (आददे) = स्वयं ग्रहण करता है। उस प्रभु के प्रति यह अपराध है कि जो ब्रह्मज्ञानी को हिंसित करता है। शेष पूर्ववत्।

     

    भावार्थ -

    वह प्रभु 'पृथिवी, जल, वायु, अग्नि, आकाश व जीवों' का आश्रय है। वही जीव के प्राणों व सूर्य के तेज को ग्रहण करता है। इसप्रकार के ब्रह्म के ज्ञाता का हिंसन करना पाप है।

    इस भाष्य को एडिट करें
    Top