Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 6
    सूक्त - पूरणः देवता - इन्द्राग्नी, यक्ष्मनाशनम् छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात्। ग्राहि॑र्ज॒ग्राह॒ यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥

    स्वर सहित पद पाठ

    मु॒ञ्चामि॑ । त्वा॒ । ह॒विषा॑ । जीव॑नाय । कम् । अ॒ज्ञा॒त॒य॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् ॥ ग्राहि॑: । ज॒ग्राह॑ । यदि॑ । ए॒तत् । ए॒न॒म् । तस्या॑: । इ॒न्द्र॒ग्नी इति॑ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥९६.६॥


    स्वर रहित मन्त्र

    मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्। ग्राहिर्जग्राह यद्येतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥

    स्वर रहित पद पाठ

    मुञ्चामि । त्वा । हविषा । जीवनाय । कम् । अज्ञातयक्ष्मात् । उत । राजऽयक्ष्मात् ॥ ग्राहि: । जग्राह । यदि । एतत् । एनम् । तस्या: । इन्द्रग्नी इति । प्र । मुमुक्तम् । एनम् ॥९६.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 6

    भावार्थ -
    (६-९) इन ४ मन्त्रों की व्याख्या देखो अथर्व० ३। ११ । १-४॥

    ऋषि | देवता | छन्द | स्वर - १-५ पूरणो वैश्वामित्रः। ६-१० यक्ष्मनाशनः प्राजापत्यः। ११-१६ रक्षोहा ब्राह्मः। १७-२३ विवृहा काश्यपः। २४ प्रचेताः॥ १-५ इन्द्रो देवता। ६-१० राजयक्ष्मघ्नम्। ११-१६ गर्भसंस्रावे प्रायश्चितम्। १७-२३ यक्ष्मघ्नम्। २४ दुःस्वप्नघ्नम्॥ १-१० त्रिष्टुभः। ११-२४ अनुष्टुभः। चतुर्विंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top