अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 1
ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च। इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ॥
स्वर सहित पद पाठती॒व्रस्य॑ । अ॒भिऽव॑यस: । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ ॥ इन्द्र॑ । मा । त्वा॒ । यज॑मानास: । अ॒न्ये । नि । रि॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तास॑: ॥९६.१॥
स्वर रहित मन्त्र
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च। इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥
स्वर रहित पद पाठतीव्रस्य । अभिऽवयस: । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च ॥ इन्द्र । मा । त्वा । यजमानास: । अन्ये । नि । रिरमन् । तुभ्यम् । इमे । सुतास: ॥९६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 1
विषय - राजा,आत्मा और परमेश्वर।
भावार्थ -
हे (इन्द्र) इन्द्र ! ऐश्वर्यशील ! जीवात्मन् ! तू (तीव्रस्य) तीव्र, तीक्ष्ण ज्ञानवान् (अभिवयसः) सब प्रकार योग्य कर्म फलों से युक्त (अस्य) इस आनन्द-रस को (पाहि) पान कर, स्वीकार कर। (सर्वरथा) समस्त रमण योग्य देहों में विद्यमान (हरी) हरी हरणशील अश्वों के समान प्राण और अपान दोनों को (इह) इस ज्ञान की दशा में (वि मुञ्च) त्याग कर। हे (इन्द्र) आत्मन् (त्वा) तुझको (अन्ये यजमानासः) और दूसरे विपरीत मार्ग पर लेजाने वाले संगकारी, आसक्तिजनक विषयगण (मा निरीरमन्) सर्वथा भी प्रलोभन में न फांसलें (इमे) ये (सुतासः) समस्त उत्पन्न पदार्थ आभ्यन्तर आनन्दरस (तुभ्यम्) तेरे ही लिये हैं।
टिप्पणी -
इदं सूक्तं राथह्विटनीभ्यां त्रयोविंशत्यृचं पठ्यते। वैतानसूत्रे चतुर्विंशत्यृचं स्वीक्रियते। तत्र पूर्वाः पञ्च पूरणदृष्टाः। ततः पञ्च यक्ष्मनाशन प्राजापत्यदृष्टाः। ततः षट् रक्षोहा ब्राह्मदृष्टाः तत षड् विवृहा काश्यपदृष्टाः ततश्चैका प्रचेतोदृष्टा दुःस्वप्नघ्नी इति ऋग्वेदीयक्रमेण पठ्यमाना त्रयोविंशतिर्ऋचोराथसम्मताः। पाण्डुरंग संहितायां हृदयातते०॥१७॥ एत्येका ऋग् अधिका पठ्यते। मेहनादित्यस्य स्थाने च ‘अस्थि भ्यस्ते०’ इति ऋक् पठयते। ‘ऊरुभ्यां०’ ‘अङ्गैअगे०’ इत्यनयोः। पाठभेदश्च दृश्यते।
ऋषि | देवता | छन्द | स्वर - १-५ पूरणो वैश्वामित्रः। ६-१० यक्ष्मनाशनः प्राजापत्यः। ११-१६ रक्षोहा ब्राह्मः। १७-२३ विवृहा काश्यपः। २४ प्रचेताः॥ १-५ इन्द्रो देवता। ६-१० राजयक्ष्मघ्नम्। ११-१६ गर्भसंस्रावे प्रायश्चितम्। १७-२३ यक्ष्मघ्नम्। २४ दुःस्वप्नघ्नम्॥ १-१० त्रिष्टुभः। ११-२४ अनुष्टुभः। चतुर्विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें