अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 27
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यां दे॒वा अ॑नु॒तिष्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्। तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिष॑न्धिना ॥
स्वर सहित पद पाठयाम् । दे॒वा: । अ॒नु॒ऽतिष्ठ॑न्ति । यस्या॑: । न । अस्ति॑ । वि॒ऽराध॑नम् । तया॑ । इन्द्र॑: । ह॒न्तु॒ । वृ॒त्र॒ऽहा । वज्रे॑ण । त्रिऽसं॑धिना ॥१२.२७॥
स्वर रहित मन्त्र
यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम्। तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥
स्वर रहित पद पाठयाम् । देवा: । अनुऽतिष्ठन्ति । यस्या: । न । अस्ति । विऽराधनम् । तया । इन्द्र: । हन्तु । वृत्रऽहा । वज्रेण । त्रिऽसंधिना ॥१२.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 27
भाषार्थ -
(देवाः) देव अर्थात् दिव्य विचारों वाले या विजिगीषु सैनिक (याम्) जिस आहुति का (अनुतिष्ठन्ति) अनुष्ठान करते हैं,(यस्याः न अस्ति विराधनम्) जिस की कि विफलता नहीं होती, (तया) उस आहुति द्वारा (वृत्रहा) वृत्रघाती (इन्द्रः) सम्राट् (त्रिषन्धिना वज्रेण) त्रिषन्धि रूपी बज्र द्वारा, ( हन्तु) असुर-वृत्रों का हनन करे।
टिप्पणी -
[तया आहुत्या= देखो (११।१०।०५, १२,१४,१५)। विराधनम्= वि +राधृ (संसिद्धौ); संसिद्धि= सफलता, विराधनम्= विफलता, वज्रेन= देखो (मन्त्र ११।१०।२ की व्याख्या) त्रिषन्धि बज्र= सेनासंचालक, त्रिषन्धि नामक सेनाधीश। देवाः = दिव्य विचारों वाले, या दिव् विजिगीषा। वृत्रघाती= असुर-वृत्रघाति]।