अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 8
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराट्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अवा॑यन्तां प॒क्षिणो॒ ये वयां॑स्य॒न्तरि॑क्षे दि॒वि ये चर॑न्ति। श्वाप॑दो॒ मक्षि॑काः॒ सं र॑भन्तामा॒मादो॒ गृध्राः॒ कुण॑पे रदन्ताम् ॥
स्वर सहित पद पाठअव॑ । अ॒य॒न्ता॒म् । प॒क्षिण॑: । ये । वयां॑सि । अ॒न्तरि॑क्षे । दि॒वि । चर॑न्ति । श्वाप॑द: । मक्षि॑का: । सम् । र॒भ॒न्ता॒म् । आ॒म॒ऽअद॑: । गृध्रा॑: । कुण॑पे । र॒द॒न्ता॒म् ॥१२.८॥
स्वर रहित मन्त्र
अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति। श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥
स्वर रहित पद पाठअव । अयन्ताम् । पक्षिण: । ये । वयांसि । अन्तरिक्षे । दिवि । चरन्ति । श्वापद: । मक्षिका: । सम् । रभन्ताम् । आमऽअद: । गृध्रा: । कुणपे । रदन्ताम् ॥१२.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 8
भाषार्थ -
(ये) जो (वयांसि पक्षिणः) कौवे तथा अन्य पक्षी हैं, (ये) जोकि (अन्तरिक्षे) अन्तरिक्ष में (दिवि) दिन के समय (चरन्ति) विचरते हैं, वे (अवायन्तु) शव भक्षणार्थ नीचे आए। (श्वापदः) कुत्तों के सदृश पैरों वाले हिंस्रपशु, (मक्षिकाः) तथा मक्खियां (संरभन्ताम्) मिलकर खाना आरम्भ करें। (आमादः गृध्रा) कच्चा मांस खाने वाले गीध (कुणपे) शव पर (रदन्ताम्) चीर-फाड़ करें।
टिप्पणी -
[संरभन्ताम् = अथवा खाने के लिये तीव्र वेग वाले हों। दिवि = दिन में। दिवेदिवे अहर्नाम (निघं० १।९)। रदन्ताम् = रद विलेखने]।