यजुर्वेद - अध्याय 24/ मन्त्र 23
ऋषिः - प्रजापतिर्ऋषिः
देवता - अग्न्यादयो देवताः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
15
अ॒ग्नये॑ कु॒टरू॒नाल॑भते॒ वन॒स्पति॑भ्य॒ऽउलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न॒श्विभ्यां॑ म॒यूरा॑न् मि॒त्रावरु॑णाभ्यां क॒पोता॑न्॥२३॥
स्वर सहित पद पाठअ॒ग्नये॑। कु॒टरू॑न्। आ। ल॒भ॒ते॒। वन॒स्पति॑भ्य॒ इति॑ वन॒स्पति॑ऽभ्यः। उलू॑कान्। अ॒ग्नीषोमा॑भ्याम्। चाषा॑न्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। म॒यूरा॑न्। मि॒त्रावरु॑णाभ्याम्। क॒पोता॑न् ॥२३ ॥
स्वर रहित मन्त्र
अग्नये कुटरूनालभते वनस्पतिभ्यऽउलूकानग्नीषोमाभ्याञ्चाषानश्विभ्याम्मयूराभ्याङ्कपोतान् ॥
स्वर रहित पद पाठ
अग्नये। कुटरून्। आ। लभते। वनस्पतिभ्य इति वनस्पतिऽभ्यः। उलूकान्। अग्नीषोमाभ्याम्। चाषान्। अश्विभ्यामित्यश्विऽभ्याम्। मयूरान्। मित्रावरुणाभ्याम्। कपोतान्॥२३॥
विषयः - पुस्तमेव विषयमाह॥
अन्वयः - हे मनुष्या यथा पक्षिगुणविज्जनोऽग्नये कुटरून् वनस्पतिभ्य उलूकानग्नीषोमाभ्यां चाषानश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतानालभते, तथैतान् यूयमप्यालभध्वम्॥२३॥
पदार्थः -
(अग्नये) पावकाय (कुटरून्) कुक्कुटान् (आ) (लभते) (वनस्पतिभ्यः) (उलूकान्) (अग्नीषोमाभ्याम्) (चाषान्) (अश्विभ्याम्) (मयूरान्) (मित्रावरुणाभ्याम्) (कपोतान्)॥२३॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये कुक्कुटादीनां पक्षिणां गुणान् जानन्ति, ते सदैतान् वर्धयन्ति॥२३॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal