Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 3
    ऋषिः - प्रजापतिर्ऋषिः देवता - अश्व्यादयो देवताः छन्दः - निचृदतिजगती स्वरः - निषादः
    8

    शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्तऽआ॑श्वि॒नाः श्येतः॑ श्येता॒क्षोऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒माऽअ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः॥३॥

    स्वर सहित पद पाठ

    शु॒द्धवा॑ल॒ इति॑ शु॒द्धऽवा॑लः। स॒र्वशु॑द्धवाल॒ऽइति॑ स॒र्वऽशु॑द्धवालः। म॒णि॒वाल॒ इति॑ मणि॒ऽवालः॑। ते। आ॒श्वि॒नाः। श्येतः॑। श्ये॒ता॒क्ष इति॑ श्येतऽअ॒क्षः। अ॒रु॒णः। ते। रु॒द्राय॑। प॒शु॒पत॑य॒ इति॑ पशु॒ऽपत॑ये। क॒र्णाः। या॒माः। अ॒व॒लि॒प्ता इत्य॑वऽलि॒प्ताः। रौ॒द्राः। नभो॑रूपा॒ इति॒ नभः॑ऽरूपाः। पा॒र्ज॒न्याः ॥३ ॥


    स्वर रहित मन्त्र

    शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षो रुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥


    स्वर रहित पद पाठ

    शुद्धवाल इति शुद्धऽवालः। सर्वशुद्धवालऽइति सर्वऽशुद्धवालः। मणिवाल इति मणिऽवालः। ते। आश्विनाः। श्येतः। श्येताक्ष इति श्येतऽअक्षः। अरुणः। ते। रुद्राय। पशुपतय इति पशुऽपतये। कर्णाः। यामाः। अवलिप्ता इत्यवऽलिप्ताः। रौद्राः। नभोरूपा इति नभःऽरूपाः। पार्जन्याः॥३॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 3
    Acknowledgment

    अन्वयः - हे मनुष्याः! युष्माभिर्ये शुद्धवालः सर्वशुद्धवालो मणिवालश्च सन्ति, त आश्विनाः। ये श्येतः श्येताक्षोऽरुणश्च सन्ति, ते पशुपतये रुद्राय। ये कर्णाः सन्ति, ते यामाः। येऽवलिप्ताः सन्ति, तेरौद्राः। ये नभोरूपाः सन्ति, ते पार्जन्याश्च वेदितव्याः॥३॥

    पदार्थः -
    (शुद्धवालः) शुद्धा वाला यस्य सः (सर्वशुद्धवालः) सर्वे शुद्धा वाला यस्य सः (मणिवालः) मणिरिव वाला यस्य सः (ते) (आश्विनाः) सूर्य्यचन्द्रदेवताकाः (श्येतः) श्वेतवर्णः (श्येताक्षः) श्येते अक्षिणी यस्य सः (अरुणः) रक्तवर्णः (ते) (रुद्राय) दुष्टानां रोदकाय (पशुपतये) पशूनां पालकाय (कर्णाः) ये कार्याणि कुर्वन्ति ते (यामाः) वायुदेवताकाः (अवलिप्ताः) अवलिप्तान्युपचितान्यङ्गानि येषान्ते (रौद्राः) प्राणादिदेवताकाः (नभोरूपाः) नभ इव रूपं येषान्ते (पार्जन्याः) मेघदेवताकाः॥३॥

    भावार्थः - यो यस्य पशोर्देवताऽस्ति स तद्गुणोऽस्तीति वेद्यम्॥३॥

    इस भाष्य को एडिट करें
    Top