यजुर्वेद - अध्याय 24/ मन्त्र 15
ऋषिः - प्रजापतिर्ऋषिः
देवता - इन्द्रादयो देवताः
छन्दः - विराडनुष्टुप्
स्वरः - ऋषभः
7
उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः कृ॒ष्णा वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः॥१५॥
स्वर सहित पद पाठउ॒क्ताः। सं॒च॒रा इति॑ सम्ऽच॒राः। एताः॑। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाः। वा॒रु॒णाः। पृश्न॑यः। मा॒रु॒ताः। का॒याः। तू॒प॒राः ॥१५ ॥
स्वर रहित मन्त्र
उक्ताः सञ्चराऽएताऽऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास्तूपराः ॥
स्वर रहित पद पाठ
उक्ताः। संचरा इति सम्ऽचराः। एताः। ऐन्द्राग्नाः। कृष्णाः। वारुणाः। पृश्नयः। मारुताः। कापाः। तूपराः॥१५॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे मनुष्याः! युष्माभिरेता उक्ताः सञ्चरा ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुतास्तूपराः कायाश्च सन्तीति बोध्यम्॥१५॥
पदार्थः -
(उक्ताः) कथिताः (सञ्चराः) ये सम्यक् चरन्ति ते (एताः) (ऐन्द्राग्नाः) इन्द्राग्निदेवताकाः (कृष्णाः) कर्षकाः (वारुणाः) वरुणदेवताकाः (पृश्नयः) विचित्रचिह्नाः (मारुताः) (कायाः) प्रजापतिदेवताकाः (तूपराः) हिंसकाः॥१५॥
भावार्थः - ये नानादेशसंचारिणः प्राणिनस्सन्ति तैर्मनुष्या यथायोग्यानुपकारान् गृह्णीयुः॥१५॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal