यजुर्वेद - अध्याय 24/ मन्त्र 6
ऋषिः - प्रजापतिर्ऋषिः
देवता - अग्न्यादयो देवताः
छन्दः - विराट् त्रिष्टुप्
स्वरः - ऋषभः
5
कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ रोहि॑ता रु॒द्राणा॑ श्वे॒ताऽअ॑वरो॒किण॑ऽ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः॥६॥
स्वर सहित पद पाठकृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। शि॒ति॒भ्रव॒ इति॑ शिति॒भ्रवः॑। वसू॑नाम्। रोहि॑ताः। रु॒द्राणा॑म्। श्वे॒ताः। अ॒व॒रो॒किण॒ इत्य॑वऽरो॒किणः॑। आ॒दि॒त्याना॑म्। नभो॑रू॒पा॒ इति॒ नभः॑ऽरूपाः। पार्ज॒न्याः ॥६ ॥
स्वर रहित मन्त्र
कृष्णग्रीवाऽआग्नेयाः शितिभ्रवो वसूनाँ रोहिता रुद्राणाँ श्वेता अवरोकिण आदित्यानान्नभोरूपाः पार्जन्याः ॥
स्वर रहित पद पाठ
कृष्णग्रीवा इति कृष्णऽग्रीवाः। आग्नेयाः। शितिभ्रव इति शितिभ्रवः। वसूनाम्। रोहिताः। रुद्राणाम्। श्वेताः। अवरोकिण इत्यवऽरोकिणः। आदित्यानाम्। नभोरूपा इति नभःऽरूपाः। पार्जन्याः॥६॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे मनुष्या ये कृष्णग्रीवास्त आग्नेयाः। ये शितिभ्रवस्ते वसूनां ये रोहितास्ते रुद्राणां ये श्वेता अवरोकिणस्त आदित्यानां ये नभोरूपास्ते च पार्जन्याः बोध्याः॥६॥
पदार्थः -
(कृष्णग्रीवाः) कृष्णा कर्षिका ग्रीवा निगरणं येषान्ते (आग्नेयाः) अग्निदेवताकाः (शितिभ्रवः) शितिश्श्वेताः भ्रूर्भ्रकुटिर्यासां ताः (वसूनाम्) पृथिव्यादीनाम् (रोहिताः) रक्तवर्णाः (रुद्राणाम्) प्राणादीनाम् (श्वेताः) श्वेतवर्णाः (अवरोकिणः) अवरोधकाः (आदित्यानाम्) सूर्यसम्बन्धिकां मासानाम् (नभोरूपाः) नभ उदकमिव रूपं येषां ते (पार्जन्याः) मेघदेवताकाः॥६॥
भावार्थः - मनुष्यैरग्नेराकर्षणक्रिया पृथिव्यादीनां धारणक्रिया वायूनां प्ररोहणक्रिया आदित्यानामवरोधिका मेघानां च जलवर्षिकाः क्रिया विदित्वा कार्येषूपयोज्याः॥६॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal