यजुर्वेद - अध्याय 24/ मन्त्र 27
ऋषिः - प्रजापतिर्ऋषिः
देवता - वस्वादयो देवताः
छन्दः - निचृद् बृहती
स्वरः - मध्यमः
6
वसु॑भ्य॒ऽऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॒न् विश्वे॑भ्यो दे॒वेभ्यः॑ पृष॒तान्त्सा॒ध्येभ्यः॑ कुलु॒ङ्गान्॥२७॥
स्वर सहित पद पाठवसु॑भ्य॒ इति वसु॑ऽभ्यः। ऋश्या॑न्। आ। ल॒भ॒ते॒। रु॒द्रेभ्यः॑। रुरू॑न्। आ॒दि॒त्येभ्यः॑। न्यङ्कू॑न्। विश्वे॑भ्यः। दे॒वेभ्यः॑। पृ॒ष॒तान्। सा॒ध्येभ्यः॑। कु॒लु॒ङ्गान् ॥२७ ॥
स्वर रहित मन्त्र
वसुभ्यऽऋश्यानालभते रुद्रेभ्यः रुरूनादित्येभ्यो न्यङ्कून्विश्वेभ्यो देवेभ्यः पृषतान्त्साध्येभ्यः कुलुङ्गान् ॥
स्वर रहित पद पाठ
वसुभ्य इति वसुऽभ्यः। ऋश्यान्। आ। लभते। रुद्रेभ्यः। रुरून्। आदित्येभ्यः। न्यङ्कून्। विश्वेभ्यः। देवेभ्यः। पृषतान्। साध्येभ्यः। कुलुङ्गान्॥२७॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे मनुष्याः! यथा पशुगुणविज्जनो वसुभ्य ऋश्यान् रुद्रेभ्यो रुरूनादित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त्साध्येभ्यः कुलुङ्गानालभते तथैतान् यूयमप्यालभध्वम्॥२७॥
पदार्थः -
(वसुभ्यः) अग्न्यादिभ्यः (ऋश्यान्) मृगजातिविशेषान् पशून् (आ) (लभते) (रुद्रेभ्यः) प्राणादिभ्यः (रुरून्) मृगविशेषान् (आदित्येभ्यः) मासेभ्यः (न्यङ्कून्) पशुविशेषान् (विश्वेभ्यः) (देवेभ्यः) दिव्येभ्यः पदार्थेभ्यो विद्वद्भ्यो वा (पृषतान्) मृगविशेषान् (साध्येभ्यः) साधितुं योग्येभ्यः (कुलुङ्गान्) पशुविशेषान्॥२७॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या मृगादीनां वेगगुणान् विदित्वोपकुर्युस्तेऽत्यन्तं सुखं लभेरन्॥२७॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal