अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 19
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
चतु॑र्होतार आ॒प्रिय॑श्चातुर्मा॒स्यानि॑ नी॒विदः॑। उच्छि॑ष्टे य॒ज्ञा होत्राः॑ पशुब॒न्धास्तदिष्ट॑यः ॥
स्वर सहित पद पाठचतु॑:ऽहोतार: । आ॒प्रिय॑ । चा॒तु॒:ऽमा॒स्यानि॑ । नि॒ऽविद॑: । उत्ऽशि॑ष्टे । य॒ज्ञा: । होत्रा॑: । प॒शु॒ऽब॒न्धा: । तत् । इष्ट॑य: ॥९.१९॥
स्वर रहित मन्त्र
चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः। उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥
स्वर रहित पद पाठचतु:ऽहोतार: । आप्रिय । चातु:ऽमास्यानि । निऽविद: । उत्ऽशिष्टे । यज्ञा: । होत्रा: । पशुऽबन्धा: । तत् । इष्टय: ॥९.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 19
विषय - सब जगत् के कारण परमात्मा का उपदेश।
पदार्थ -
(चतुर्होतारः) चार [ब्राह्मण, क्षत्रिय, वैश्य, शूद्र, चार वर्णों] से ग्राह्य व्यवहार, (चातुर्मास्यानि) चार महीनों में सिद्ध होनेवाले कर्म (आप्रियः) सर्वथा प्रीति उत्पन्न करनेवाली क्रियाएँ और (निविदः) निश्चित विद्याएँ, (यज्ञाः) यज्ञ [श्रेष्ठ व्यवहार], (होत्राः) देने लेने योग्य [वेदवाचाएँ] (पशुबन्धाः) प्राणियों के प्रबन्ध (तत्) तथा (इष्टयः) इष्ट क्रियाएँ (उच्छिष्टे) शेष [म० १।५ परमात्मा] में हैं ॥१९॥
भावार्थ - सर्वविद्यामय, सर्वाधार परमेश्वर की उपासना से मनुष्य अपने-अपने योग्य कर्मों में प्रवृत्ति करें ॥१९॥
टिप्पणी -
१९−(चतुर्होतारः) चत्वारो ब्राह्मणक्षत्रियवैश्यशूद्रा होतारो ग्रहीतारो येषां ते व्यवहाराः (आप्रियः) प्रीञ् तर्पणे कान्तौ च-क्विप्। सर्वथा प्रीत्युत्पादिकाः क्रियाः (चातुर्मास्यानि) चतुर्मासाण् ण्यो यज्ञे। वा० पा० ५।१।९४। चतुर्षु मासेषु साध्यानि कर्माणि (निविदः) अ० ५।२६।४। निश्चितविद्याः (उच्छिष्टे) (यज्ञाः) श्रेष्ठव्यवहाराः (होत्राः) अ० ११।६।१४। दानादानयोग्या वेदवाचः (पशुप्रबन्धाः) पशवो व्यक्तवाचश्चाव्यक्तवाचश्च-निरु० ११।२९। पशूनां प्राणिनां प्रबन्धाः (तत्) तथा (इष्टयः) इष्टक्रियाः ॥