अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 16
यत्ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम्। शि॒वं ते॑ त॒न्वि॒ तत्कृ॑ण्मः संस्प॒र्शेऽद्रू॑क्ष्णमस्तु ते ॥
स्वर सहित पद पाठयत् । ते॒ । वास॑: । प॒रि॒ऽधान॑म् । याम् । नी॒विम् । कृ॒णु॒षे । त्वम् । शि॒वम् । ते॒ । त॒न्वे᳡ । तत् । कृ॒ण्म॒: । स॒म्ऽस्प॒र्शे । अद्रू॑क्ष्णम् । अ॒स्तु॒ । ते॒ ॥२.१६॥
स्वर रहित मन्त्र
यत्ते वासः परिधानं यां नीविं कृणुषे त्वम्। शिवं ते तन्वि तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥
स्वर रहित पद पाठयत् । ते । वास: । परिऽधानम् । याम् । नीविम् । कृणुषे । त्वम् । शिवम् । ते । तन्वे । तत् । कृण्म: । सम्ऽस्पर्शे । अद्रूक्ष्णम् । अस्तु । ते ॥२.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 16
विषय - कल्याण की प्राप्ति का उपदेश।
पदार्थ -
[हे मनुष्य !] (यत्) जिस (वासः) वस्त्र को (परिधानम्) ओढ़ना और (याम्) जिस (नीविम्) पेटी [फेंटा] को (ते) अपने लिये (त्वम्) तू (कृणुषे) बनाता है। (तत्) उसे (ते) तेरे (तन्वे) शरीर के लिये (शिवम्) सुख देनेवाला (कृण्मः) हम बनाते हैं, वह (ते) तेरे लिये (संस्पर्शे) छूने में (अद्रूक्ष्णम्) अनखुरखुरा (अस्तु) होवे ॥१६॥
भावार्थ - मनुष्य कवच, अङ्गरक्षा आदि वस्त्र शरीर के लिये, सुखदायक बनावें ॥१६॥
टिप्पणी -
१६−(यत्) (ते) त्वदर्थम्। स्वस्मै (वासः) वस्त्रम् (परिधानम्) उपर्य्याच्छादनम् (याम्) (नीविम्) नौ व्यो यलोपः पूर्वस्य च दीर्घः। उ० ४।१३६। नि+व्येञ् संवरणे-इण्, स च डित्, यलोपश्च। कटिबन्धनम् (कृणुषे) करोषि (त्वम्) (शिवम्) सुखकरम् (ते) तव (तन्वे) शरीराय (तत्) वस्त्रम् (कृण्मः) कुर्मः (संस्पर्शे) स्पर्शकरणे (अद्रूक्ष्णम्) इण्सिञ्जि०। उ० ३।२। रूक्ष पारुष्ये−नक्, दकारश्छान्दसः। अरूक्ष्णम्। अकोठरम् (अस्तु) (ते) तुभ्यम् ॥