अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
अधि॑ ब्रूहि॒ मा र॑भथाः सृ॒जेमं तवै॒व सन्त्सर्व॑हाया इ॒हास्तु॑। भवा॑शर्वौ मृ॒डतं॒ शर्म॑ यच्छतमप॒सिध्य॑ दुरि॒तं ध॑त्त॒मायुः॑ ॥
स्वर सहित पद पाठअधि॑ । ब्रू॒हि॒ । मा । आ । र॒भ॒था॒: । सृ॒ज । इ॒मम् । तव॑ । ए॒व । सन् । सर्व॑ऽहाया: । इ॒ह । अ॒स्तु॒ । भवा॑शर्वौ । मृ॒डत॑म् । शर्म॑ । य॒च्छ॒त॒म् । अ॒प॒ऽसिध्य॑ । दु॒:ऽइ॒तम् । ध॒त्त॒म् । आयु॑: ॥२.७॥
स्वर रहित मन्त्र
अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहाया इहास्तु। भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः ॥
स्वर रहित पद पाठअधि । ब्रूहि । मा । आ । रभथा: । सृज । इमम् । तव । एव । सन् । सर्वऽहाया: । इह । अस्तु । भवाशर्वौ । मृडतम् । शर्म । यच्छतम् । अपऽसिध्य । दु:ऽइतम् । धत्तम् । आयु: ॥२.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 7
विषय - कल्याण की प्राप्ति का उपदेश।
पदार्थ -
[हे मृत्यु-म० ८] (अधि ब्रूहि) ढाढ़स दे, (मा आ रभथाः) मत पकड़, (इमम्) इस [पुरुष] को (सृज) छोड़, यह (तव एव सन्) तेरा ही होकर (सर्वहायाः) सब गतिवाला (इह) यहाँ (अस्तु) रहे। (भवाशर्वौ) भव, [सुख देनेवाले प्राण] और शर्व [क्लेश वा मल नाश करनेवाले अपान वायु] तुम दोनों (मृडतम्) प्रसन्न हो, (शर्म) सुख (यच्छतम्) दान करो और (दुरितम्) दुर्गति (अपसिध्य) हटा कर (आयुः) जीवन (धत्तम्) पुष्ट करो ॥७॥
भावार्थ - मनुष्य मृत्यु अर्थात् विपत्ति को सम्पत्ति का कारण समझकर पूर्ण साहसी होकर आत्मिक और शारीरिक बल से विघ्न हटाकर कीर्तिमान् होवें ॥७॥
टिप्पणी -
७−(अधि ब्रूहि) अनुग्रहेण वद (मा आ रभथाः) मा गृहाण (सृज) त्यज (इमम्) जीवम् (तव) (एव) (सन्) (सर्वहायाः) वहिहाधाञ्भ्यश्छन्दसि। उ० ४।२२१। ओहाङ् गतौ-असुन्, युगागमः। सर्वगतिः (इह) अस्मिन् संसारे (अस्तु) (भवाशर्वौ) अ० ४।२८।१। सुखस्य भावयिता कर्ता भवः प्राणः, दुःखस्य शरिता नाशकः शर्वोऽपानवायुश्च तौ (मृडतम्) सुखिनौ भवतम् (शर्म) सुखम् (यच्छतम्) दत्तम् (अपसिध्य) निराकृत्य (दुरितम्) दुर्गतिम् (धत्तम्) पोषयतम् (आयुः) जीवनम् ॥