अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 27
ये मृ॒त्यव॒ एक॑शतं॒ या ना॒ष्ट्रा अ॑तिता॒र्याः। मु॒ञ्चन्तु॒ तस्मा॒त्त्वां दे॒वा अ॒ग्नेर्वै॑श्वान॒रादधि॑ ॥
स्वर सहित पद पाठये । मृ॒त्यव॑: । एक॑ऽशतम् । या: । ना॒ष्ट्रा: । अ॒ति॒ऽता॒र्या᳡: । मु॒ञ्चन्तु॑ । तस्मा॑त् । त्वाम् । दे॒वा: । अ॒ग्ने: । वै॒श्वा॒न॒रात् । अधि॑ ॥२.२७॥
स्वर रहित मन्त्र
ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः। मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥
स्वर रहित पद पाठये । मृत्यव: । एकऽशतम् । या: । नाष्ट्रा: । अतिऽतार्या: । मुञ्चन्तु । तस्मात् । त्वाम् । देवा: । अग्ने: । वैश्वानरात् । अधि ॥२.२७॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 27
विषय - कल्याण की प्राप्ति का उपदेश।
पदार्थ -
[हे मनुष्य !] (ये) जो (एकशतम्) एक सौ एक (मृत्यवः) मृत्युएँ और (याः) जो (नाष्ट्राः) नाश करनेवाली [पीड़ायें] (अतितार्याः) पार करने योग्य हैं। (तस्मात्) उस [क्लेश] से (त्वाम्) तुझको (देवाः) [तेरे] उत्तम गुण (वैश्वानरात्) सब नरों के हितकारक (अग्नेः) अग्नि [सर्वव्यापक परमेश्वर] का आश्रय लेकर (अधि) अधिकारपूर्वक (मुञ्चन्तु) छुड़ावें ॥२७॥
भावार्थ - ब्रह्मवादी योगीजन सर्वगुरु परमेश्वर के आश्रय से उत्तम कर्म करके शारीरिक और आत्मिक पीड़ाएँ छोड़कर आनन्द पाते हैं ॥२७॥
टिप्पणी -
२७−(ये) (मृत्यवः) मृत्युहेतवो रोगादयः (एकशतम्) एकाधिकं शतम्। बहुसंख्याका इत्यर्थः (याः) (नाष्ट्राः) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६। नाशयतेः-त्रन्। नाशयित्र्यः पीडाः (अतितार्याः) अतितरीतव्याः। लङ्घनीयाः (मुञ्चन्तु) मोचयन्तु (तस्मात्) क्लेशात् (त्वाम्) मनुष्यम् (देवाः) उत्तमगुणाः (अग्नेः) पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम्। वा० पा० २।३।२८। अग्निं सर्वव्यापकं परमेश्वरमाश्रित्य (वैश्वानरात्) सर्वनरहितमित्यर्थः (अधि) अधिकृत्य ॥