अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 20
अह्ने॑ च त्वा॒ रात्र॑ये चो॒भाभ्यां॒ परि॑ दद्मसि। अ॒राये॑भ्यो जिघ॒त्सुभ्य॑ इ॒मं मे॒ परि॑ रक्षत ॥
स्वर सहित पद पाठअह्ने॑ । च॒ । त्वा॒ । रात्र॑ये । च॒ । उ॒भाभ्या॑म् । परि॑ । द॒द्म॒सि॒ । अ॒राये॑भ्य: । जि॒घ॒त्सुऽभ्य॑: । इ॒मम् । मे॒ । परि॑ । र॒क्ष॒त॒ ॥२.२०॥
स्वर रहित मन्त्र
अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि। अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥
स्वर रहित पद पाठअह्ने । च । त्वा । रात्रये । च । उभाभ्याम् । परि । दद्मसि । अरायेभ्य: । जिघत्सुऽभ्य: । इमम् । मे । परि । रक्षत ॥२.२०॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 20
विषय - कल्याण की प्राप्ति का उपदेश।
पदार्थ -
(त्वा) तुझे (उभाभ्याम्) दोनों (अह्ने) दिन (च च) और (रात्रये) रात्रि को (परि दद्मसि) हम सौंपते हैं। (अरायेभ्यः) निर्दानी और (जिघत्सुभ्यः) खाना चाहनेवाले लोगों से (इमम्) इस [पुरुष] को (मे) मेरे लिये (परि) सब प्रकार (रक्षत) तुम बचाओ ॥२०॥
भावार्थ - मनुष्य प्रकाश अन्धकार और समय कुसमय का विचार करके शत्रुओं से परस्पर रक्षा करें ॥२०॥
टिप्पणी -
२०−(अह्ने) दिनाय। प्रकाशकालाय (त्वा) त्वाम् (रात्रये) अन्धकारकालाय (च च) समुच्चये (उभाभ्याम्) द्वाभ्याम् (परि दद्मसि) समर्पयामः (अरायेभ्यः) रा दाने-घञ्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युक्। अदातृभ्यः (जिघत्सुभ्यः) अद भक्षणे-सन्-उ प्रत्ययः। लुङ्सनोर्घस्लृ। पा० २।४।३७। अदेर्घस्लादेशे। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१०। इट्प्रतिषेधः। सः स्यार्धधातुके। पा० ७।४।४९। इति तत्वम्। भक्षणेच्छुकेभ्यः पुरुषेभ्यः (इमम्) पुरुषम् (मे) मह्यम् (परि) सर्वतः (रक्षत) पालयत ॥