अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - दीर्घायु सूक्त
यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं कृ॒ष्याः पयः॑। यदा॒द्यं यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥
स्वर सहित पद पाठयत् । अ॒श्नासि॑ । यत्। पिब॑सि । धा॒न्य᳡म् । कृ॒ष्या । पय॑: । यत् । आ॒द्य᳡म् । यत् । अ॒ना॒द्यम् । सर्व॑म् । ते॒ । अन्न॑म् । अ॒वि॒षम् । कृ॒णो॒मि॒ ॥२.१९॥
स्वर रहित मन्त्र
यदश्नासि यत्पिबसि धान्यं कृष्याः पयः। यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥
स्वर रहित पद पाठयत् । अश्नासि । यत्। पिबसि । धान्यम् । कृष्या । पय: । यत् । आद्यम् । यत् । अनाद्यम् । सर्वम् । ते । अन्नम् । अविषम् । कृणोमि ॥२.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 19
विषय - कल्याण की प्राप्ति का उपदेश।
पदार्थ -
[हे मनुष्य !] (यत्) जो तू (कृष्याः) खेती का [उपजा] (धान्यम्) धान्य (अश्नासि) खाता है, और (यत्) जो तू (पयः) दूध वा जल (पिबसि) पीता है। (यत्) चाहे (आद्यम्) पुराना [धरा हुआ], (यत्) चाहे (अनाद्यम्) नवीन [पुराने से भिन्न] हो, (सर्वम्) वह सब (अन्नम्) अन्न (ते) तेरे लिये (अविषम्) निर्विष (कृणोमि) करता हूँ ॥१९॥
भावार्थ - जो मनुष्य खान-पान विचारपूर्वक करते हैं, वे नीरोग रहते हैं ॥१९॥ सायणाचार्य ने अर्थ किया है−(आद्यम्) खाने योग्य, सुख से भक्षणीय और (अनाद्यम्) न खाने योग्य, कठिन वा अत्यन्त कटु तिक्त द्रव्य ॥
टिप्पणी -
१९−(यत्) यत्किञ्चित् (अश्नासि) खादसि (यत्) (पिबसि) (धान्यम्) अन्नम् (कृष्याः) कृषिकर्मणः प्राप्तम् (पयः) दुग्धं जलं वा (यत्) यदि वा (आद्यम्) दिगादिभ्यो यत्। पा० ४।३।५४। आदि-यत्। आदौ भवम्। प्रथमम्। पुराणम्। यद्वा अद भक्षणे-ण्यत्। अदनीयम्। सुखेन भक्षणीयम्-यथा सायणः (यत्) अनाद्यम्-आद्येन प्रथमेन भिन्नम्। नवीनम्। यद्वा अदनानर्हं कठिनद्रव्यम्, अत्यन्तकटुतिक्तत्वाद् वा अनाद्यम्-इति सायणः (सर्वम्) (ते) तुभ्यम् (अन्नम्) जीवनसाधनं भक्षणीयं वा द्रव्यम् (अविषम्) निर्विषम्। नीरोगम् (कृणोमि) करोमि ॥